________________
काश्यपशिल्पे सप्ताशीतितमः पटलः । भृशांशे विष्णुगृहं स्याधाम्ये षण्मुखमन्दिरम् । शास्तुहं अगाशे तु नैर्ऋत्यां केशवालयम् ॥ २९ ॥ सुग्रीवांश गणाध्यक्ष पुष्पदन्तपदेऽथवा । वारुण्यां विष्णुगेहं स्यात्सुग्रीवांशे हलालयम् ॥ ३० ॥ भृङ्गराजांशके पाशयक्ष्मे चैव विनाशकौ । मदिरालयं तु वायव्ये मुख्ये तु यमभूयकम् ॥ ३१ ॥ मातृणामालयं सौम्ये वायव्यां करणेऽपि वा। ईशाने शिवहवें स्यादीशानानन्तरेषु वा ॥ ३२ ॥ पर्जन्यांशे जयांशे वा हेन्द्रावाग्भोगमे वा। मारुतं केतुना विप्र कर्तव्यं तु शिवालयम् ।। ३३ ।। शिवालयं मातृकोष्ठं कर्तव्यं तु बहिर्मुखम् । अभ्यन्तरमुखं विष्णुं विवस्वान्पश्चिमाननम् ॥ ३४ ॥ शेषाः पूर्वमुखाः सर्वे कारयेद्विधिपूर्वकम् । सूत्रसंन्धौ चतुष्के तु शूले चैवाष्टकेऽपि वा ॥ ३५ ॥ षद्के चैव तु वीथ्यग्रे देवालयं द(हि)कारयेत् । वापीकूपतटाकादीन्सर्वत्र परिकल्पयेत् ॥ ३६॥ ब्रह्मांशे शेषभस्थानं वारुणे हरिमन्दिरम । बाह्ये चैव कुलालानां नापितानां तु संकरे ॥ ३७ ॥ दक्षिणे शेदसीनां तु कारुणां चैव तत्र वै।। मत्स्योबहिर्हतानां तु पश्चिमे वासमुच्यते ॥ ३८ ॥ उत्तरे चैव किकाणां अपरे तत्समीपके। तद्वाह्ये त्वबाह्ये वा कर्मकारा तथानले ॥ ३९ ॥ बाह्ये त्वल्पदूरे तु रजकानां गृहं भवेत् । तद्वाह्ये कोशमात्रे च चण्डालावासमुच्यते ॥ ४० ॥ शंकरे परिखा तग्र(द)च्छतदण्डे श्मशानकम् । वायव्यां च श्मशानं तु प्रागुक्तेन विशेषतः ॥ ४१ ॥ अपरं मानसूत्रं तु बाह्ये सालान्तरे भवेत् । महेन्द्रत्य(न्द्राद)ग्निभागान्तं भोजनं च विधीयते ।। ४२॥ दण्डदक्षिणपार्वे तु पश्चिमे कुसुमिकालयम् । वस्त्रेणापि कचेदण्डुदण्डलङ्गान्यकंकटम् ॥ ४३॥