________________
२६०
काश्यपशिल्पे सप्ताशीतितमः पटलः ।
॥ अथ सप्ताशीतितमः पटलः ।।
अथ वक्ष्ये विशेषेण भक्तानां लक्षणं परम् । सर्वेषामपि भक्तानां पदं चतुर्विधं भवेत् ॥ १ ॥ सालोक्यं चैव सामीप्यं सायुज्यं च तथैव च । सारूप्यं च वि(प)दं विष चतुर्भेदमुदाहृतम् ॥ २॥ पुरुषो वा स्त्रियो वाऽथ तेषु यत्पादमाश्रितम् । तत्तत्पादानुकूल्यं वा सालोक्यपदमाश्रितम् ॥ ३ ॥ तदा सामीप्यदेशश्च मम(रु)चिराकृतिस्तु वा।। ममचिरादिभिः कुर्याच्छेषाद्वे पादमाश्रिताः ॥४॥ बालश्च यौवना वृद्धस्त्रिविधस्य मिया ता(था)। त्रिविषादाकलाशब्दं तपसाचालसज्जिता ॥ ५॥ तस्मात्सप्ततिवर्ष वा या सा यौवनान्विता । तदूर्ववयसोपेतं वृद्धा तु निन्द्रबन्धनम् ॥ ६॥ बालास्तु पञ्चतालेन शेषा वसुमयेन वै। स्थानकं चासनं चैव यानमृत्तन एव च ॥ ७॥ चतुर्भेदेन कर्तव्यं भक्तानां मानुषाबुधः। अभङ्ग समभङ्ग वा अतिभङ्गमथापि वा ॥८॥ . सव्यं वामस्य पादं तु कुश्चितं त्वितरस्थितम् । द्वौ स्वजानुचितां धृत्वा हृदयेऽब्जलिखेऽथ वा ॥९॥ लम्ब्यं दक्षिणपादं तु हस्तं पूर्ववदेव हि । आसनं पञ्चसप्तं वा नवमं तु शिखोपरि ॥ १० ॥ त्रयोदशपरिवाथ प्रकीर्णकं तु ततो भवेत् । महेन्द्रगृहरक्षेते पुष्पदन्ते तथैव च ॥ ११ ॥ भल्लाटक्यां शवे बाधाप्रवेशं परिकल्पयेत् । प्राङ्मुखानामपीन्द्रः स्यादुदगग्रं तथैव च ॥ १२ ॥ मनुपक्षकला वाऽथ सत्पादशपथं तु वा। नन्द्यावर्तमिदं पञ्चभेदमत्र विधीयते ॥ १३ ॥