________________
काश्यपशिल्पे पडशीतितमः पटलः ।
२५९ पर्यासारं तु बद्धं स्याज्जलपायहका भवेत् । जलपत्तिविना यत्र तत्र कापित्थज द्विजः ॥ १६ ॥ नियोसजलसंबन्धमुक्तमन्यन्न कारयेत् । कल्कं षोडशधा भज्य षट्पश्चचतुरं तु वा ॥ १७ ॥ कपित्थनिर्यासेनैव स्वच्छं नैव जलं भवेत् । सकृच्चिकणलेपं तु कारयेद्विजसत्तमः ॥ १८ ॥ चिकणं कल्कसारं च द्विविधं चिक्कणं भवेत् । जलपात्रं सुधाकुम्भे चिक्कणं शकरद्रवम् ॥ १९ ॥ चिक्कणं द्विविधं चैव कल्पयेत्तु यथोचितम् । चिक्कणं कल्कबन्धं तु दशभागविभाजिते ॥ २०॥ एकांशरहितं बद्धं शिलोपवनं तु (लालेपन योग्यकम् । चिक्कणे बन्धतुल्यं वा सितलेपनकर्माण ॥ २१ ॥ सितबन्धसमं वाऽथ तद्दशांशं विहीनकम् । पास्थांवर्णरय बद्धस्य स्त्री(त्रिः)कृत्वा पांमु(सु)लेपनम् ।। २२ ॥ षड्वर्ण तु ततो लेप्यं यथाक्रमेणं देशिकः । बिम्बसवेतवर्ण तु षट्कृत्वः सालिपेत्तथा ॥ २३ ॥ पामुवार्ण तु विंशांशे त्वंसहीनं तु वर्जयेत् । षट्पषादिकवर्णस्य बन्धमित्युच्यते मया ॥ २४ ॥ तदानीं वर्णवन्धं तु विंशांशेऽशविहीनकम् । द्वितीयं वर्णबन्धं स्यात्तन्वतद्धन्धनं ततः ॥ २५ ॥ षण्णामपि सवर्णाद्या बन्धमेवं क्रमोन्नतम् ।। प्रथमेत्युच्यते बन्धे षड्विधं च लिपेत्क्रमात् ॥ २६ ॥ पत्रं बन्धं च मन्वन्तं न तथा .... .... ... । प्रवर्तय षडेतानि वर्णलेपक्रमं विदुः ॥ २७ ॥ दीर्घपत्रमिति स्यातं ततोऽन्यच्च द्विभाजितम् । स्वर्णचूर्णसमायुक्तं वर्णलेपप्रवर्तकम् ।। २८ ।। षड्वर्णक्रममेवं हि लेपयेत्तु परस्परम् ॥ २९ ॥ इत्यंशुमद्भदे काश्यपशिल्पे वर्णलेपनं नाम
___ षडशीतितमः पटलः ।