________________
काश्यपशिल्पे पञ्चाशीतितमः पटलः ।
मस्तानान्वितमिन्द्रं यवस्थयेलक्षण
॥ १६ ॥
इत्येते कल्कसंस्काराः प्रोच्यते (क्ताश्च) सकलस्य तु ॥ १७ ॥ इत्यंशुमद्भेदे काश्यपशिल्पे कल्कसंस्कारलक्षणं नाम चतुरशीतितमः पटलः ।
|| अथ पञ्चाशीतितमः पटलः ॥
२५५
अथ वक्ष्ये विशेषेण वर्णसंस्कारलक्षणम् । शिवात्परमसद्भावं द्रव्यकाच्छशिसंभवम् ॥ १ ॥ शिवाच्छक्तिः समुत्पन्ना तस्या नादः समुत्थितः । तस्मात्सर्वे समुत्पन्नं तस्मादनिलसंभवः ॥ २ ॥ अनिलादापः संभूतं तस्माद्वै क्षिति संभवम् । श्वेतं रक्तं तथा पीतं कृष्णं चेतिचतुर्विधम् ॥ ३ ॥ जले सच्छ्वेतमग्नौ च रक्तं निभवेद्भवम् । (?) भुवने पीतवर्णश्च नीले कृष्णस (स्य) संभवः । विष्णुर्महेश्वरो गौरी रुद्रो वर्णाधिपाः क्रमात् । विप्रक्षत्रियविट्शूद्राः सितवर्णादयः क्रमात् ॥ ५ ॥ श्वेतं रक्तं च पीतं च कृष्णं चैव चतुर्विधम् । श्वेतं चैत्र तु शुक्रं च धवलं च विनात्तकम् ॥ ६ ॥ मुक्ताभं चेषुवर्णाभं श्वेतवर्णमिदं सितम् । शङ्खवर्णसमं शुद्धं प (वर्णमित्युतमा (त्तमं मया (तम् ) ॥ ७ ॥ रजताभं च गोक्षीरसदृशं धवलं भवेत् । तारकासमवर्ण तु अतारकमुदाग्रतः ॥ ८ ॥ अरुणं रक्तशोणं च अग्निएदं (रेवं) चतुर्विधम् । अरुणं शोकनाभं तु पद्मपुष्पाभरत्नकम् ॥ ९॥ शोणकं शुकपुष्पाभं राक्षसानां तु पाटलम् | स्वर्णपिङ्ग च पीतं च हरितालं चतुर्विधम् ॥ १० ॥ स्वर्णवर्णव पुण्ड्रं विसङ्ग-जनिसारवत् । हरितालं च पीतस्य हरितं रज्जुमन्त्रवत् ॥ ११ ॥