________________
२५६
काश्यपशिल्पे पञ्चाशीतितमः पटलः ।
नीलं श्यामं च कालं च कृष्णं चैव चतुर्विधम् । मेघवर्णसमं नीलं श्यामं वै नलयां समम् ॥ १२ ॥ शिखिवर्णसमं कालं कृष्णं च भृगुपत्रवत् । एवं षोडशभेदं तु वर्णमेवं स्वजन्त्रकम् ॥ १३ ॥ धरणीजसमुच्छिष्टं रक्तं त्रासाग्रसंभवम् । अथवा जातिलिङ्ग तु रक्तभासं द्विधा स्मृतम् || १४ || गौदावर्या तु संस्कृतं हलालवमुदाहृतम् । अतसीपुष्पसंकाशं रजायत्ताश्वमुच्यते ॥ १५ ॥
श्यामपाषाणसारं तु श्याममित्यभिधीयते । दिवेप्तत्तरजोत्पू(दीपोत्पन्नरजोव )र्ण कृष्णवर्णमुदाहृतम् ॥ १६ ॥ एवमादिकलावर्णास्तस्मिंस्तस्मिन्ननेकधा ।
मिच्छेत लक्षसारं च दिवोद्भूतरजस्तथा ॥ १७ ॥
ऊरूँ चापिमिनीलाघयां तुरन्याभिधीयते । एवं स्वतः प्रयाणं तु वर्णविम्वान कामतम् ॥ १८ ॥
इति काश्यपे वर्णसंस्कारलक्षणम् ।
लाकामा वर्णा वक्ष्ये संक्षेपतः क्रमात् । पीताभ्यासं तु पीतं स्यात्तादृशं पूर्णवत्कृतम् ॥ १९ ॥ नारिकेलोद कैर्मिश्रं दहेरक्तनिभं भवेत् । तत्सुधाकर्मरक्तस्य शवे दीर्घसिता भवेत् ॥ २० ॥ राजावत च श्यामं च पाषाणौ द्वौ च पूजितौ । जनासनं वशस्ताः स्युः सुधाकर्मसु सुव्रत || २१॥ अयः संस्कारवर्णे तु वक्ष्यते द्विजसत्तम । सितं रक्तं समं मिश्रं गौरं च विरुदाहृतम् ॥ २२ ॥ सितं पीनं समं मित्रं यत्तत्पूरकं भवेत् । सितवत्कं कृष्णसंमिश्रं समावर्णनिभं भवेत् ॥ २३ ॥ श्वेतं कृष्णं च पीतं च समभागं तु मिश्रितम् । धारं च विरिदं ख्यातं वर्णकर्मसु चो (त्कट) कृतम् ॥ २४ ॥