________________
काश्यपशिल्पे चतुरशीतितमः पटलः । .२५३ चन्दनागरुकर्पूरगोषु गोरोचनं समम् । ग्राह्यं चूर्ण तु कर्तव्यं मुत्ता(क्तां)शांशसमन्वितम् ॥ १६ ॥ अतसीस्नेहसंयुक्तं मर्दयेदेशिकोत्तमः । सुपर्णराजिताचूर्ण चापल्ये गुलिकावहे ॥ १७ ॥ दिग्दिगन्नादि सस्यादि सागरे च हलस्तले । गजदन्ते वृषशृङ्गे गोमृगैश्च विशेषतः ॥ १८ ॥ यथालाभं तु कर्तव्यं नानागन्धसमन्वितम् । कपित्थं चैव निर्यासं मधु वा मर्दयेद्बुधः ॥ १९ ॥ पञ्चरात्रमितीकृत्य नारिकेलफलं तथा । त्वक्सारं तु परीगृह्य एकसारं द्वयागुलम् ॥ २० ॥ सार्धद्वयागुलं वाऽथ मानेन च्छेदयेद्बुधः। मृच्चतुर्थसमायुक्तं मध्यमे वात(स)मारभेत् ।। २१ ।। राज्यं धेनुमृदं लिप्य ततोऽपि ऋजुवेष्टनम् । तदुरुज्जु नरं विप्र एकद्विव्यङ्गुलं तु वा ॥ २२ ॥ ततो वै मृत्समालिप्य यावच्छोषणकं द्विज । तावनिरीक्ष्य कर्तव्यं मृल्लेपं तु शनैः शनैः ॥ २३ ॥ शूलबाह्यागतव्यासचतुर्भङ्गविभाजिते । एकांशावधिकं लिप्य अनुरूपमुदाहृतम् ॥ २४ ॥ द्वयंशावशतमिश्रं स्याभागेन त्वनलावधि । तत्तधेशमृदेनैव तत्तयोग्यं समालिपेत् ॥ २५ ॥ शेष कालेन संपूर्य वेदं शेषं सवल्कलम् । शेष कार्यासतन्त्वादि युक्तं कल्के तु कल्पयेत् ॥ २६ ॥ मृत्संस्कारमिदं ख्यातं कल्कसंस्कारमुच्यते ॥ २७ ॥ इत्यंशुम दे काश्यपशिल्पे मृत्सकारलक्षणं नाम
व्यतितमः पटलः ।