________________
काश्यपशिल्पे व्यशीतितमः पटलः । अंशत्वेन खनेत्पाद सुव्रीडिजाङ्गलं भवेत् । तनुवालुकसंयुक्तं तनुक्लेशाल्खनक्षमम् ॥ २ ॥ त्रिहस्तं मनोरमं सन्तु(तु) दृष्टं वत्सानुरूपकम् । तयोर्मिश्रविमा(मिवा)कारं मिश्रलं तदुदाहृतम् ॥ ३ ॥ तेषु शेष्या जवोपेता शुद्धभूमौ मनोरमे । नदीतीरे तटाके वा श्वेतामृक्पीतकृष्ण वा(ला) ।। ४ ।। पडू संग्राह्य पात्रेषु जलमाखावयेत्तु वा। पात्रस्थं शोषयेत्पडू यावदल्पदृढान्वितम् ।। ५॥ तावद्रक्ष्या च बालाक्षिताम्भसं विप्र मर्दयेत् । ईषद्द्वसमायुक्तं पिण्डं कृत्वा तु तन्मृदा ॥ ६ ॥ पिण्ड हस्ते नले रेखा दृशे पिष्ठं तथा कुरु । यवताराष्टकेणैताः कल्प्यमानं तलेन तु ॥ ७ ॥ रुद्राजुलीपरीणाहं प्रस्त(स्थं) मुक्तमुदाहृतम् । सिकतं च शिलापूर्ण सदृशं कल्पयेबुधः ॥ ८॥ मृत्तं वैकं तु(त)देकांशं योजयेत्तु मुदा स हि । फलं भोगिसमं दद्याद्दशाहे वाऽष्टसप्तके ॥ ९ ॥ यवगोत्रममाक्षं च तत्त्वसीचूर्णसंयुतम् । मृदेऽष्टांशं समायोज्यं नालिकेलफलोदकैः ॥ १० ॥ पात्रे वा मर्दयेद्भस्म देशहातृकमे ततः । श्र(श्री)वेष्टं गुग्गुलं चैव कुन्दुरुष्कं तथैव च ॥ ११ ॥ तथा सर्जरसाचूर्ण मृत्कालांशं शिवांशकम् । पात्रे मृदा समायोज्यं दधिना मर्दयेत्सुधीः ॥ १२ ॥ चूर्णी च पिप्पली चैव मरीची रसनी तथा । समचूर्णं तु कर्तव्यं उद्देशांशैः सुसंयुतम् ॥ १३॥ मधुक्षीरघृतेनैव मृदं पात्रेण मर्दयेत् । कपित्थबिल्वनिर्यासचूर्णौ द्वौ समतां कुरु ॥ १४ ॥ मृदे पञ्चदशांशे वा तैलचूर्णसमायुतम् । मर्दयेत्क्रमसाम्या(थ) कुष्ठगैरिकतालकम् ॥ १५ ॥