________________
काश्यपशिल्पे ज्यशीतितमः पटलः । पक्षदण्डोपरिष्टं तु(ष्टात्त) तिर्यग्बाहुगतास्त्विमे । गगनी मर्दनी चैव रोहिणी दक्षिणे करे ॥ १६ ॥ रसावादि(वर्ती)मृदङ्गी च सृक्सिना(सिंसनी) वामबाहुका। वाहुमूले समावृत्य त्रिष्वग्रं चैव(क)वद्भवेत् ॥ १७ ॥ तस्याग्रे द(अ)ष्टशाखासु दक्षिणे दक्षिणे तथा । बाहुमूलं तथान्तं तु नाडयोऽष्टौ प्रसारिते ॥ १८ ॥ तेषामग्रेकविप्राणिवन्धैकप्रणवावृतम् । एवं वामे तु दृष्टं स्याद्धस्तं प्रणवमाचरेत् ॥ १९ ।। एवं हि प्रतिमानं तु नाडीनामष्टविंशतिः । प्रधाना नाडयस्त्वेवं कल्पयेत्तन्त्रवित्तमः ।। २० ॥ तेषु भिन्नास्तथा विप्र अष्टाष्टौ नाइयस्तथा। तस्मात्तदेकनं नाडी सर्वाङ्गं तु समावृतम् ॥ २१ ॥ चतुःसप्तसहस्राणि नाडयः परिकीर्तिताः । नाडिहस्तावृताः शूला जीर्णकः शूलपात्रवत् ॥ २२ ॥ नालिकेलफलैः पकैः घृतकल्पलयान्वितम् । चर्मासारं गृहीत्वा तु सारादन्यारवाहता ।। २३ ।। नाडयः स्वा हि संकल्प्य पश्चादातनाडिकाः । षडयवं तु परीणाहं रज्जुमापातयेदृढम् ॥ २४ ॥ पश्चात्तु रज्जुरज्जुभ्यां बन्धयेइक्षिणावृतम् । हृत्पमसाष्टपत्रं तु रज्जुना बन्धयेद्बुधः ॥ २५ ॥ तस्य नालं तु नाभ्यन्तं सुषुम्णा(म्ना) सह साधितम् । जीवस्थानं तु तत्पद्ममित्युक्तं हि मयाऽधुना ॥ २६॥ मूलमन्त्रमनुस्मृत्य रज्जुबन्धं ततः कुरु ।। रज्जुबन्धमिति ख्यातं मृत्संस्कारमतः परम् ॥ २७॥ इत्यंशुमद्भेदे काश्यपशिल्पे रज्जुबन्धलक्षणं
नाम द्वयशीतितमः पटलः ।
॥ अथ त्र्यशीतितमः पटलः ॥
मृत्संस्कारमहं वक्ष्ये संक्षेप्याशू(प्य शृणु सुव्रत । जाङ्गले जानुरूपं च संमिश्रं मृत्रिधा भवेत् ॥ १॥