________________
काश्यपशिल्पे व्यशीतितमः पटलः ।
॥ अथ द्वयशीतितमः पटलः ॥
अथ वक्ष्ये विशेषेण रज्जुबन्धं सविस्तरम् । सर्वशूलस्य बन्धस्तु ताम्रपत्रैः सुवेष्टयेत् ॥ १ ॥ शूलेऽष्टबन्धमालिप्य रज्जुबन्धं ततः कुरु । श्रीवेष्टकं दुरुष्कं च गुग्गुलं च गुडं तथा ।। २ ॥ सर्जकं गैरिकं चैव धृततैलेऽष्टबन्धनम् । श्रीवेष्टकं चतुर्भागं कुन्दुरुष्कं गुणांशकम् ॥ ३ ॥ गुग्गुलं पञ्चभागं स्यादेकांशं गुलमुच्यते । सर्जकः स तु वस्वंशं गैरिकं तु गुणालम् ।। ४ ।। पडेते सूक्ष्मचूर्ण तु कृत्वाऽऽज्यतैलमिश्रताः। . मृत्पात्रे तु विनिक्षिप्य पचेत्क्षौद्रादिकं वरम् ॥५॥ तथैव शूलमालिप्य रज्जुबन्धं ततः कुरु ।। रज्जुबन्धस्तु नाहे तु मध्यं स्यादूवेगं त्रिधा ॥ ६॥ सुषुम्ना मध्यमा ख्याता पिङ्गला तस्य दक्षिणा । इडा वै तस्य वामस्था प्रधानेनाध्यास्तिमे(नोर्ध्वगास्त्विमा)॥७॥ द्वयङ्गलं तु परीणाहं युक्तास्ता वै त्रिवर्तिकाः। तेषां नाडीत्रयाणां तु मूलमेदावसानकम् ॥ ८ ॥ तेनास्थिमूलवद्भिन्ना राडीया(नाडयो)ऽष्टादशस्तथा । विमला घोषिणी प्रायसचाहहसितेजसा ॥९॥ (?) वायविर्गतती चैव मर्दिनी घोषिणी तथा । रसवर्ती मृदङ्गी च स्तिसनी च तथैव च ॥१०॥ शब्दस्पर्शादिपूर्णा च सुसिंही वारिधारिणी। वाहिनीति समाख्याता त्रिपदसंख्या विधानतः ॥ ११ ॥ प्रत्येकं त्रियवव्यासा त्रित्रिवर्तिविर्तिका । तेष्वादो रसनाडी तु सर्वपादोरुमूलकम् ॥ १२ ॥ ऊरुमूलैः क्रमावृत्त्या परितो नलिकान्तकम् । लम्बितास्ते समाख्याताः सा वै पिङ्गलमूलकम् ॥ १३ ॥ शब्दादीनि [तु पदसंख्या इडामूले समुद्भवा ।। एषां वै रसनाडीनां वामपादे तु सन्त्यवत् ॥ १४ ॥ नलकाग्रेवमावृत्त्या षण्णामग्रैकवर्तिता। सुषुम्ना मूलगाः शेषा वंशपाङ्गिरोहिताः ॥ १५ ॥