________________
काश्यपशिल्प एकाशीतितमः पटलः । २४९ कर्तव्यं सुन्दरं तस्मिन्नाधाराख्याशलां न्यसेत् । पीठग्राह्यत्रिपादं तु आसा(धा)राख्यशिलातलम् ॥ ४२ ॥ समग्रमायतं वाऽपि तदर्ध तद्धनं भवेत् । स्थानकं सकलं चेत्तु पादाधस्ताद्विजोत्तम ॥ ४३ ॥ आधाराख्यशिलायां तु रत्नामुल्यं प्रकल्पयेत् । निम्नं पडङ्गलं ख्यातं कर्तव्यं सगुणाकुलम् ॥४४॥ मूले तु नवरत्नं वा होमपात्रं विनिक्षिपेत् ।। शूलपादतलाधस्तात् षण्मात्रं वाऽऽयतान्वितम् ॥ ४५ ॥ प्रागेव कल्पयेद्धीमानस्थापनार्थ बलान्वितम् । प्रवेशेग(विशेद्गर्भगेहे (हे) तु मूलमन्त्रं समुच्चरन् ॥ ४६॥ स्थापयेत्तु पदे शूलं मूलमन्त्रं दृढं तथा । अष्टवन्धं दृदं कृत्वा सुधया च विशेषतः ॥ ४७॥ तस्य वामे तथा स्थाप्यं गौरीशूलं विशेषतः । आधाराख्याशिलायां च गर्भभाजनमाग(य)तम् ॥ ४८॥ पञ्चषट्सप्तमात्र वा गर्तव्यासं तथा तस(सम)म् । गर्भन्यासं तु तत्रैव गर्भभाजनसंयुतम् ॥ ४९ ॥ प्रागुक्तविधिना सम्यक्गन्धपुष्पादिभिर्यजेत् । स्थापयेत्पूर्ववच्छूलं मूलं वै द(गर्भभाजनम् ॥ ५० ॥ अथाशेषं तु यत्कर्म शिल्पिभिस्तु विशेषतः । कर्तव्यं लक्षणोपेतं स्थपतिः शिल्पिरुच्यते ॥ ५१ ॥ स्थपतिः शिल्पकर्मा च योग्या त्व(ग्यस्त्व)न्यस्तु कारयेत् । कृतं चेदन्यथा विप्र कर्तुरिच्छा भविष्यति ॥ ५२ ॥ आचार्यः पूजयेत्तत्र पञ्चनिष्कं हिरण्मयम् । शूलस्थापनमाख्यातं रज्जुबन्धमथ शृणु ॥ ५३ ॥ इत्यंशुमद्भदे काश्यपशिल्पे शूलपाणिलक्षणं नामै
काशीतितमः पटलः ।