________________
२४८
काश्यपशिल्प एकाशीतितमः पटलः । वास्तुहोमादिकुण्डे तु अग्निं संस्थाप्य देशिकः । अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ २७ ॥ अग्न्यर्थ पूर्वकुण्डे नु वह्निमाग्नेयगोचरे । याम्ये चौदुम्बरं ख्यातं खदिरं नै(क्रोतिं द्विज ।। २८ ।। बिम्बं पश्चिमभागे तु मयूरं वायुगोचरे । पटं वै सौम्यकुण्डे तु खदिरं वास्तु देशिकः ॥ २९ ॥ प्रधाने ब्रह्मवृक्षः स्यात्समिद्वौरि(गौरी)समन्वितम् । विद्याकुण्डेषु कुण्डानि गौरीहीनानि कारयेत् ॥ ३० ॥ समिदो हृदयेनैव पुरुषेण घृताऽऽहुतीः । अघोरेण चरुं हुत्वा दा(त्वा)यां वामे तु होमयेत् ॥ ३१ ॥ चरुस्मिन्शाण(मीशान)मन्त्रेण तिलं वै शिरसाहुतिः । सर्षपं कवचेनैव शिखामङ्गलमुच्यते ॥ ३२ ॥ गलमस्त्रेण मन्त्रेण प्रत्यहं जुहुयाच्छतम् । उच्यते व्याहृति हुत्वा देवदेव्युचितं समम् ॥ ३३ ॥ जयादिभि(बै)रभ्यातानैश्च राष्ट्रभृच्चैव(द्भिश्च) होमयेत् । दिशास्त्रध्यायतं वेदांस्तोत्रैस्तु[हि शिखामुखैः ॥ ३४ ॥ अध्यानं कृततोदग्रमुपांशुं होममाचरेत् । देवदेवीशयोमूलमन्त्रैरष्टादशाऽऽहुतीः ॥ ३५ ॥ घृताहुतीस्तु कर्तव्यं भस्मस्नानमतः परम् । शुक्लवस्त्रोसरीयं च शुक्लयज्ञोपवीतधृत् ।। ३६ ॥ शुक्लमालानुलेपाद्यैस्त्रिषु पञ्चाङ्गभूषणैः। . पवित्रपाणिनोपेतः सकलीकृतविग्रहः ॥ ३७॥ आचार्यः सुप्रसन्नायुः (स्यः) शिवद्विजकुलोत्तमः। प्रविश्य गर्भगेहं त एकाशीतिपदं कुरु ॥ ३८ ॥ मण्डूकाख्यपदं वाऽथ सप्तसप्तांश एव वा । गर्भगेहे तु कर्तव्यं ज्ञात्वा ब्रह्मोदयं परम् ॥ ३९ ॥ स्थानकं देविकांशे तु आसनं मानुषे पदे । गर्भगेहपरे भागे स्थापयेदेशिकोत्तमः ।। ४.॥ आसनं भद्रपीठेन स्थानकं वेदिकोपरि । मागुक्तविधिना पीठव्यासायागो(मो)दयादयः ॥ ४१ ॥