________________
काश्यपशिल्प एकाशीतितमः पटलः ।
कुण्डलक्षणवत्कुर्यात्सर्वकुण्डानि देशिकः । मोमयालेपनं कृत्वा पिष्टचूर्णैरलंकृतम् ॥ १२ ॥ ब्राह्मणान्भोजयेत्तस्मिन्पुण्याहं वाचयेत्ततः । महेन्द्रस्तु पदं यावद्धोमं कृत्वा विधानतः ॥ १३ ॥ वेदिकां (चा)वाग्निकुण्डं च पर्यनिकरणं कुरु । निर्दिष्टादिवसात्पूर्व रात्रौ (त) दधिवासनम् ॥ १४ ॥ स्थण्डिलं वेदिकायां तु अष्टद्रो (णै)व शालिभिः । कर्तव्यं नालिकेरस्य साष्टपत्रं सकीर्ण (कार्ण) कम् ॥ १५ ॥ तण्डुलैस्तिलदर्भैश्च रा(ला)जपुष्पैरलंकृतम् ।
• २४७
शयनं चाहतेनैव वस्त्रेणैव प्रकल्पयेत् ॥ १६ ॥ धूपदीपैः समायुक्तं पुष्पगन्धैः समर्चयेत् । मण्डपं चो(स्यो ) तरे पार्श्वे स्नानशुभ्रं प्रकल्पयेत् ॥ १७ ॥ तन्मध्ये दारुपीठं तु न्यस्या (स्येत्त ) स्योपरि द्विजः । प्राङ्मुखं स्थापयेच्छूलं पञ्चगव्याभिषेचितम् ॥ १८ ॥ शुचि हव्येति मन्त्रेण कृत्वा गन्धोदकै (ई) दः । स्थापयेदेवं देवीं च गन्धपुष्पैः समर्चयेत् ॥ १९ ॥ कौतुकं बन्धयेदेवांस्ततो दक्षिणहस्तयोः । स्वर्णकार्पाससूत्रैर्वा कवचैरेव बन्धयेत् ॥ २० ॥ लम्बकूर्चसमायुक्तं वाद्यध्वनिसमायुतम् । शयनं शा(स्था)पयेच्छूलं प्राक्छिर चोर्ध्ववक्त्रकम् ॥ २१ ॥ तस्य वामे युमादेवी शूलं वै शाययेत्सुधीः । तयोः शिरोऽग्निके देशे स्थापयेत्तु पटद्वयम् ॥ २२ ॥ सूत्रं सर्वाभिधानं च सकूर्च वखवेष्टनम् । द्रोणकुम्भाम्बुसंपूर्ण शिवकुम्भं तदुच्यते ॥ २३ ॥ तस्यार्धं तोयसंपूर्ण प्राग्वत्सूत्रादिभिर्युतम् । मौरीबीजसमायुक्तं गोत्र ( गौरी कुम्भमिदं परम् ॥ २४ ॥ तन्मूलमध्यमे कुम्भं न्यस्य कुम्भा (गन्धा) दिभिर्यजेत् । मौरीकुम्भे तु तस्यास्तु मन्त्रं न्यस्य विशेषतः ॥ २५ ॥ परितोऽष्टघटान्न्यस्य सूत्राद्यैवः समन्वितान् । विषेशान्मूलमन्त्रेव स्थाप्य गन्धादिभिर्यजेत् ॥ २६ ॥