________________
२४६
काश्यपशिल्प एकाशीतितमः पटलः । विम्बार्थं शूलमाख्यातं तस्मादुक्तं समाचरेत् । शूललक्षणमाख्यातं शूलस्थापनमुच्यते ॥ ४३ ॥ इत्यंशुमद्भेदे काश्यपशिल्पे शूललक्षणं नामा
शीतितमः पटलः ।
!! अथैकाशीतितमः पटलः ॥
अथ वक्ष्ये विशेषेण शूलस्थापनमुत्तमम् । कर्षणाधुदिते मासे रि(ऋ)ले वारे सुलग्नके ॥१॥ निश्चित्य स्थापनं तस्य पुरः कृत्वाऽङ्कुरार्पणम् । प्रासादस्याग्रतो देशे मण्डपं चतुरश्रकम् ॥ २ ॥ पञ्चसप्तकरं वाऽथ पदत्रयसमायुतम् । षोडशस्तम्भ[संयुक्तं द्वादशस्तम्भसंयुतम् ॥ ३॥ तलमष्टाङ्गुलोत्सेधं प(भि)त्तिव्यासवितुङ्ग कम् । यथालाभं परीणाहं वामकं नीव्रणं दृढम् ॥ ४॥ वलयं वंशनासाढयं नालिकेरफलादिभिः । शा(स्था)पयेत्तु विधानेन मुक्ताग्रं दर्भमालिका ॥ ५ ॥ तरङ्ग वेष्टनोपेतं वरतोरणसंयुतम् । चतुर्द्वारसमायुक्तं स्तम्भवेष्टनसंयुतम् ॥ ६॥ चतुरं विनाऽन्यत्र निश्छिद्रं जालकं तु वा । मण्डपस्य त्रिभागैकं वेदिकोदयमुच्यते ॥ ७॥ गुणाङ्गुलं विशालोश्च(चं) मध्यायोद्धतपेटिका। दर्पणोदरसंकाशं कृत्वा रूपं दृढं लिखेत् ।। ८॥ परितश्चाग्निकुण्डानि अनेन विधिना कुरु ।। चतुरश्रं धनुर्वृत्तं पद्मपूर्वादिदिक्षु च ॥९॥ च(श)क्रशंकरयोर्मध्ये वृत्तकुण्डं प्रकल्पयेत् । कुण्डमेवं समाख्यातं केवलानां विशेषतः ॥१०॥ गौरीसहितबिम्बं चेत्तत्कोणेष्वर्धपत्रवत् । कुण्डानि कल्पयेच्छेषं प्रागिवैव प्रकल्पयेत् ॥ ११ ॥