________________
२४५
काश्यपशिल्पेऽशीतितमः पटलः । २४५ वंशदण्डसमानम्र ऊर्ध्वकायस्तवान्वितम् । . . .. अग्रे तु पक्षदण्डे तु मूलदण्डे तु योनयेत् ॥ २९ ॥ स्वाग्रमूले तदा तस्य पार्थवंशे द्वयोपरि । हस्तपादतलाग्रेऽत्र ताम्रपात्रेण योजयेत् ॥ ३० ॥ आर्जयेद्वस्त्रविम्बे वा शूलश्चैवावदं कुरु । देवानां शूलमेवं स्यादम्बराणां तु वक्ष्यते ॥ ३१ ॥ मध्योदरं त्रिभाज्यैव एकांशं वंशविस्तरम् । अष्टांशं हीनमग्रं स्याद्विशालं तस्य सूत्रकम् ॥ ३२ ॥ बाहुपर्यन्तविस्तारं वा तन्य(रया)थमिवार्जितम् । पक्षदण्डायतं शेषं तस्यार्धं विस्तृतं भवेत् ॥ ३३॥ तदर्ध बाहुदै ख्यातं कटिदण्डमथोच्यते । कटितारेण भूतांशं युगांशेनान्तदीर्घकम् ॥ ३४ ॥ शेष प्रागिवकर्तव्यं कश्चद्वेषमथ शृणु । आसने वंशदण्डं तु वस्वगुलं तु रेखयेत् ।। ३५ ।। युगांशं पृष्ठमानं तु शेषं कर्तशुपोशनम् । जवादण्डान्त वि(ष)मा देवयेत्स्थानके बुधः ॥ ३६ ॥ . गर्भानं तु प्रवेधं तु ततोऽधस्थं तु तद्भवेत् । . शूलमेवं समाख्यातपुपशूलमथोच्यते ॥ ३७॥ भित्तिमध्यं समारभ्य पक्षदण्डकरान्तकम् । .. उपशूलायतं प्रोक्तमष्टाङ्मुलं नतं भवेत् ॥ ३८ ॥ वेदाङ्गुलं तु तन्नीनं शूलयोग्यं समे बुधः । शूलव्याससमं वध्याच्छिद्रं तद्विशदान्वितम् ॥ ३९ ।। भित्तिमध्यं तु मूलं स्यान्मूलं बध्वा दृढं बुधः । पक्षदण्डं कटीदण्डं धृत्वा शूलाख्यशूलकम् ॥ ४० ॥ छिद्रे दृढतरं बद्ध्वा तत्परे कीलबन्धितम् । उपशूलविधानं च पक्षदण्डपुरं समम् ॥ ४१ ।। उपशूलशिखायां तु वंशाग्रे सुषिरं कुरु । लोहर्ज दारुणं वाऽथ कीलकं योजयेदृढम् ॥ ४२ ॥