________________
काश्यपशिल्पेऽशीतितमः पटलः ।
२४३
॥ अथाशीतितमः पटलः ।।
अथ वक्ष्ये विशेषेण शूललक्षणमुत्तमम् । शुद्धकायश(स)मं वेश्म दण्डदीर्घमुदाहृतम् ॥ १॥ मध्योदरं विशालं स्याच्चतुर्भागैकविस्तरम् ।। मूलादष्टांशहीने तु तस्याग्रस्य समं भवेत् ॥ २ ॥ नाभ्यन्तं चतुरश्रं तु हिकान्तं वसुकोणकम् । तदूधै वृत्तमाख्यातं शेषं वृत्तं तथैव च ॥ ३ ॥ द्वात्रिंशदमुलायामं वैकदण्डायतं भवेत् । विस्तारं सार्धषण्मात्रं सार्धसप्ताङ्गुलं तु वा ॥४॥ विस्तरार्धं घनं ख्यातं पक्षदण्डान्तमुच्यते। अग्रं युगाङ्गुलं ख्यातं मध्यादग्रं क्रमात्कृशम् ॥ ५ ॥ पक्षदण्डस्य मध्ये तु च्छिद्रं वाऽधै गुणाङ्गुलम् । हिक्कासूत्रोदयस्याधं यावद्वद्य(द)दशाङ्गुलम् ॥ ६ ॥ पक्षदण्डोसीमा स्याद्वयंशदण्डे तु योजयेत् । षोडशाङ्गुलमायाम कटिदण्डस्य देशिकः ॥ ७॥ वस्वगुलं तु तत्तारं घनं वेदाङ्गुलं भवेत। मध्ये युगाङ्गुलं छिद्रं तारं पञ्चाङ्गुलोदयः ।। ८ ।। कटिदण्डोलसीमाद्वा द्वयंशदण्डे तु योजयेत् । पक्षदण्डाद(श्र)यो विप्र कटिदण्डाश्रयोऽपि वा ॥९॥ यथावत्कांशकं कुर्यादनेन विधिना कुरु । एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टकरं तु वा ॥१०॥ द्विमुखोऽपि तु कारं यन्तु संख्या वकिशिरान्वितम् । (१) द्वयङ्गुलं तु शिरवायाममस्तं संख्योचितस्तु तम् ॥ ११ ॥ पक्षदण्डं विशालं तु हस्तसंख्या तु भाजिते । शिलाव्यासं तदेवांशं मालाग्रे तु क्रमात्कृशम् ॥ १२ ॥ कटिदण्डाश्रयं द्वयेकं शिखायाम गुणागुलम् । सार्धाङ्गुलं तु तत्तारं वृत्तं तत्समतदधनम् ॥ १३ ॥