________________
काश्यपशिल्प एकोनाशीतितमः पटलः । अघोरेण चरुं हुत्वा प्रत्येकाष्टशताहुतीः । जयादिरभ्यातानैश्च राष्ट्रभ्यश्चैव(भृद्भिश्च) होमयेत् ॥ २१ ॥ ततस्त्वग्निं समुद्रास्य वृक्षं प्रोक्ष्य शिवाम्भसा । शिवात्मकेतिमन्त्रं तु जपा(पन्द्र)क्षं स्पृशेबुधः ॥ २२ ॥ वृक्षस्य पूर्वभागे तु मुखं पृष्ठं तु पश्चिमे । दक्षिणं सव्यपार्श्व स्याद्वामपाव तथोत्तरम् ॥ २३ ॥ ज्ञात्वैवाऽऽलक्षयित्वा तु तस्य च्छेदनमाचरेत् । अस्त्रमन्त्रं जपेधुर्म मूलं त्रिश्छेद्यलक्षयेत् ॥ २४ ॥ क्षीरतोयद्रुप(म)श्चेष्टसुनुवार्थे तु शोभनम् । अस्त्रसुवेण मन्त्रेण शक्तिहोम समाचरेत् ।। २५ ।। वृक्षमूलं तु शेष तु स्थपतिर्जपयेत्क्रमात् । . पूर्वे चोत्तरदेशे तु वृक्षस्यातप(स्य पत)नं शुभम् ॥ २६ ॥ अन्यदिक्पतितं वृक्षं वर्जयेत्तु प्रयत्नतः । स्कन्द(न्ध)च्छेदं ततः कुर्यादब्जवमान्तरं कुरु ॥ २७ ॥ गव्यैर्गन्धोदकैः स्नाप्य गन्धमाल्यैरलंकृतम् । नववस्त्रेण संछाद्य दांभिः(णां) सूक्ष्मरज्जुना ॥ २८ ॥ स्यन्दने शिविकां रोप्य स्कन्धे धृत्वाऽथवा बुधौ(धः) । धृत्वा शशन्नदं दत्त्वा कर्ममण्डपमादिशेत् ॥ २९ ॥ (१) मण्डपमार्जनं कृत्वा गोमयालेपनं कुरु । गव्यैर्गन्धोदकैः प्रा(स्ला)प्यगन्धमाल्यैरलंकृतम् ।। ३० ॥ द्विष(पिष्ट)चूर्णैरलंकृत्वा तन्मध्ये पूर्णवा बुधः । स्थण्डिलं कारयेद्विद्वान्शूलदीर्घसमायतम् ॥ ३१ ॥ विस्तारार्धं तदध वा चतुरङ्गुलमुत्तमम् । प्रागौः शा(ग्रं स्था)मयेत्तस्मिन्रथू(शू)लवृक्षस्य(मधोमुखम् ३२ आशुष्के रक्षयेद्विद्वान् समं पक्षमथापि वा । पश्चादुक्तं तु कर्तव्यं त्वरितं तु न कारयेत् ॥ ३३ ॥ इत्यंशुमतेंदे काश्यपशिल्पे वृक्षसंग्रहणं नामै
कोनाशीतितमः पटलः ।