________________
काश्यपशिल्प एकोनाशीतितमः पटलः ।
क्षीणमूलं समाख्यातं फलपुष्पं तथैव च । अतिदुर्बलमाख्यातं यत्तत्पण्ड (ट) मुंदाहृतम् ॥ ७ ॥ चन्दनं चम्पर्क चैव रक्तचन्दनमेव च । चालं च खादिरं चैव सोमशीर्षदिदुक्तकम् ॥ ८ ॥ अर्धनारीशिवं चैव राजातं च मयूरकम् । पद्मकं कुटजं चैव सप्तपर्णे च सत्वकम् ॥ ९ ।। शूलयोग्यं क्रमात्ख्यातं तेष्वन्तस्थदृढं ग्रहेत् । जीर्णपर्णान्तश्रित्यावाऽशिरशून्यात्रिशिखिना ॥ १० ॥ स्वयं पतितवृक्षं च स्वयमेव तु शोषितम् । कठकाठरसंयुक्तं व्यालपक्ष (क्षि) समाश्रितम् ॥ ११ ॥ नृपमन्दिरमाश्रित्य कर्मकारालयान्वितम् ।
२४१
अग्निदग्धाच वृक्षाश्च कर्मान्तरनियोजिताः ॥ १२ ॥ वर्जयेत्तु प्रयत्नेन गृहीते कर्मनाशनम् । तस्मात्सर्वप्रयत्नेन दोषाढयान्परिवर्जयेत् ॥ १३ ॥ शस्तपक्षार्क्षवारेषु शस्तवृक्षांथ संग्रहेत् । आचार्यः शिल्पकर्ता च वृक्षस्थानं तु संत्रजेत् ॥ १४ ॥ वृक्षादधस्तारु (तृ) णादि व्यपो लेपनं कुरु । एतन्मन्त्रं समुच्चार्य अष्टदिक्षु बलिं क्षिपेत् ॥ १५ ॥ एतदक्षाश्रिता देवा दानवाश्च पिशाचकाः । नागा गरुडगन्धर्वाः सिद्धविद्याधराश्च ये ॥ १६ ॥ अयं त्रिम्बार्थवृक्षस्तु गच्छध्वं र(स्व) हिताय वै । इत्युक्त्वा च बलिं दद्याद्दध्यर्जात (ध्योदनं) सपुष्पकम् ॥ १७ ॥ रक्तचन्दनसंयुक्तं गन्धतोयसमन्वितम् ।
वृक्षस्यैशानदिग्भागे पिता (कर्ता) होमं समाचरेत् ॥ १८ ॥ स्थण्डिलं सैकतं कुर्याद्धस्तमात्र प्रमाणकम् । अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ १९ ॥ समिदाज्यच रुभिस्तु होमं कृत्वा शिवं द्विजः । समिधो हृदयेनैव मूलेनाज्यं च होमयेत् ॥ २० ॥