________________
૨૪૦
काश्यपशिल्पे एकोनाशीतितमः पटलः ।
॥ अथाष्टसप्ततितमः पटलः ॥
अथ वक्ष्ये विशेषेण लिङ्गोद्भवमिदं शृणु । लिङ्गाकारस्य मध्ये तु चन्द्रशेखर मूर्तिवत् ॥ १ ॥ नलका पाद (काऽङ्घ्रि) तलावि लिङ्गमूढसमन्वितम् । पितामहसरूपेण ऊर्ध्वाङ्गं वामपार्श्वके ॥ २ ॥ विष्णुवाहन रूपेण दक्षिणांशं तथागतम् । विष्णुर्दक्षिणपार्श्वे तु वामपार्श्वे पितामहः ॥ ३॥ हृदयाञ्जलिसंयुक्तौ स्थितौ तु लिङ्गमुच्यते । रक्तश्यामहिरण्याभं लिङ्गः विष्णुपितामहम् ॥ ४ ॥ एवं लिङ्गोद्भवं ख्यातं वृक्षसंग्रहणं शृणु ॥ ५ ॥ इत्यंशुमद्भेदे काश्यपशिल्पे लिङ्गोद्भवलक्षणं नामासप्ततितमः : पटलः ।
॥ अथैकोनाशीतितमः पटलः ॥
अथ वक्ष्ये विशेषेण वृक्षसंग्रहणं परम् । देवानां चैव देवीनां शूलार्थं वृक्षमुच्यते ॥ १ ॥ स्त्रीपुंनपुंसकं चेति वृक्षभेदं त्रिधा भवेत् ।
सुषिरं स्निग्धभूमौ वाssवर्जनीयं दृढं खत ( न ) म् ॥ २ ॥ अल्पगन्धसमायुक्तं फलं पुष्पं दृढं घनम् । शीतलोष्णं च संमिश्रं ल (म ) नोहरसमन्वितम् ॥ ३ ॥ एतत्पुल्लिङ्गमाख्यातं देवानां तदिहोच्यते । त्रिग्धे निग्धं च भूमौ वा त्वार्जयित्वाऽतिमार्दुलम् ॥ ४ ॥ मूलादग्रात्क्रमात्क्षीणं पुष्पं चैव मलम्बनम् । अतिमार्दवसंयुक्तमतिशीतलसंयुतम् ॥ ५ ॥
अतिस्नेहसमायुक्तं रसचैव समारभेत् । एतत्स्त्रीवृक्षमाख्यातं देवीनां शूलयोग्यकम् ॥ ६ ॥