________________
काश्यपशिल्पे सप्तसप्ततितमः पटलः ।
४ ॥
सूत्रं भान्वङ्गुलं वाऽथ नेत्रसूत्रं मयोच्यते । ललाटदक्षिणे सव्ये तन्त्रमध्ये तथैव च ॥ २ ॥ हिक्कासूत्रं च वामे तु वामस्तनाक्षं दक्षिणे । नाभिमध्ये तु वामे तु सूत्रान्तरं यवाष्टकम् ॥ ३ ॥ मेमूलस्य मध्ये तु वामे षडगुलं न्यसेत् । स्थिताङ्घ्रिगुल्फमध्ये तु पूर्वसूत्रं प्रलम्बयेत् ॥ देवस्य दक्षिणं पादं पद्मपद्मोपरि स्थितम् | प्रथमं नृत्तमूर्तिस्तु दक्षिणे स्थितपादवत् ॥ ५ ॥ वामपादं धृतधृत्य कुञ्चितं तलमुद्धृतम् | अङ्गुष्ठमुद्धृतं चाग्रे कालस्य हृदयं न्यसेत् ॥ ६ ॥ सुदृष्टिः स्यात्त्रिनेत्रं च जटामुकुटमण्डितम् । चतुर्भुजसमायुक्तमष्टहस्तमथापि वा ॥ ७ ॥ दक्षिणे पूर्व हस्तं तु शूलं खट्वाङ्गमुद्धृतम् । दक्षिणे परहस्तं तु परशुं वरदं तथा ॥ ८ ॥ वामे पूर्वकरं नाभिसीमान्तं सूच्यतो ( धो)गतम् । सूच्यग्रं पूर्वसूत्रान्तं कलाम ( प ) ञ्चागुलं तु वा ॥ ९ ॥ कर्णशूलधरे हस्ते मणिबन्धान्तरं बुधः । वामे तु परहस्तं तु विस्मयं परिकल्पयेत् ॥ १० ॥ हिक्कासूत्रं समं टङ्काकरद्वयान्तरं मुखम् । उष्णीषान्तं समुद्धृत्य विस्मयोऽनामिकाग्रकम् ॥ ११ ॥ कान्तं मणिबन्धान्तं शूलहस्ते समान्तरम् । चतुर्देवे (र्हस्ता)ख्यमाख्यातमष्टहस्तमथ शृणु ॥ १२ ॥ शूलं परशुवज्रं च खर्गं दक्षिणहस्तके | द्विभुजं वा द्विपादं वा सुदंष्ट्रं पादपाणिकम् ॥ १३ ॥ करण्डमुकुटोपेतं मसूर्यारास्यनिर्गमम् ।
महाभव्य समायुक्तं सपाशं हृदयं चलम् ॥ १४ ॥ विकीर्णकेशकं दृष्ट्वा शाययेदूर्ध्ववक्त्रकम् । काहामूर्तिमेवं हि प्रोक्तं लिङ्गोद्भवे तथा ॥ १५ ॥ इत्यंशुमद्भेदे काश्यपशिल्पे कालहामूर्तिलक्षणं नाम सप्तसप्ततितमः पटलः ।
२३९