________________
काश्यपशिल्पे सप्तसप्ततितमः पटलः । झानमूर्तिरिति ख्यातं सर्वालंकारसंयुतम् । अन्योन्याघ्रितलं विप्र स्पिपिण्डाथ (धः) प्रकल्पयेत् ॥ १९ ॥ ज्ञानमुद्रा हि(ह)दिस्थारे(ने) त्वभ्यन्तरधृतं करम् । वरदं वामहस्ते तु मेदपीठोपरि न्यसेत् ॥ २० ॥ दक्षिणे चाब्जमाला(वा) मालाऽब्जं वामहस्तके। नासाग्रं तु समीक्ष्याक्षावार्जवं सूत्रभेदकाः ।। २१ ।। अपरे तु जटालम्बमृषिभिः सेवितं परम् ।। योगमूर्तिरिति स्यातं ध्याने दुःखनिवृत्तिदम् ॥ २२ ॥ लम्बयेदक्षिणं पादं वाममुत्कुटिकासनम् । योगपट्ट तथा बद्ध्वा देहं चोत्कुटिकाधिके ॥ २३ ॥ प्रसार्य वामहस्तं तु वामजानूपरि द्विज । प्रागिवैव कृतं शेषं तदपि योगमूर्ति (वत् ) ॥ २४ ॥ ऊरू मूनि समायुक्तौ अन्योन्यं पादपार्णिको । योगपट्टिकयोपेतं जङ्घामध्यं द्विजोत्तम ।। २५ ॥ प्रसाये पूर्वहस्तौ तु जानूपरि निधापितो।। अपरे दक्षिणे चाक्षौ वामद्वा(क्षमाला वा)मे कमण्डप:(लु:)॥२६॥ जटामण्डलसंयुक्तं करोध्या(ट्या) चन्द्रशेखरम् । नीलग्रीवासमायुक्तं शवकुन्देन्दुसंनिभम् ॥ २७॥ अपरे चार्पयेवृक्षः नानासर्पविभूषितः । हन्मालाकणेमालाद्यादवावक्षोविराजितम् ॥ २८ ।। वटवृक्षं समाश्रित्य ऋषिभिः सेवितं पदम् । योगमूर्तिरिति ख्यातं सर्वपापहरं परम् ॥ २९ ॥ एवं [चा नेकभेदेन दक्षिणामूर्तिलक्षणम् ॥ ३०॥ इत्यंशुमद्भेदे काश्यपशिल्पे दक्षिणामूर्तिलक्षणं
नाम षट्सप्ततितमः पटलः।
।। अथ सप्तसप्ततितमः पटलः ।।
अथ वक्ष्ये विशेषेण कालहामूर्तिलक्षणम् । वसुनन्दं तु देशांशं वान(भाग)मानं द्विजोत्तम ॥ १ ॥