________________
काश्यपशिल्पे षट्सप्ततितमः पटलः । नतमत्यर्थमात्रं स्याञ्चतुर्भुजसमन्वितम् । दक्षिण पूर्वहस्ते तु अक्षमालाधरं परम् ॥ ४ ॥ वरदं पूर्वहस्त स्यादष्टहस्तमथापि वा। वामजानूपरिष्टाञ्च वरदे तलपृष्टकम् ॥ ५॥ वामजानूपरिष्टात्तु दण्डके कूपरान्न्यसेत् । वामे चापरहस्तं तु वह्निर्वा व्यालमेव वा ॥६॥ अर्धेन्दुवक्त्रं सर्वाङ्ग मम दास्यति कोपकम् । (१) विकीर्णमूर्धजं वाऽपि जटामण्डलमेव वा ॥७॥ वामे धत्तूरनागौ च दक्षिणे चन्द्रशेखरम् ।। हसितं वक्त्रसंयुक्तं सर्वाभरणभूषितम् ॥ ८॥ सितवस्त्रोत्तरीयं च सितयज्ञोपवीतिनम् । त्रिनेत्रं धवलं चामे सव्ये मकरकुण्डलम् ॥ ९ ॥ कर्णी तु पत्रशङ्ख स्यात्कुण्डलैर्वाऽथमण्डितम् । रुद्राक्षे(क्षैः) कण्ठमालाभा ह(भिह)न्मालां च विमू(लाभिश्च भूषितम् ॥ १० ॥ व्याघ्रचर्माम्बरोपेतं सर्वक्लेशविवर्जितम् । नारदो जमदग्निश्च वसिष्ठो भृगु दक्षिणे ॥ ११ ॥ भरद्वाजश्च शुनकश्वागस्त्यो वामपार्श्वके। वन्दितं किन्नराद्या(2)स्तु वटवृक्षसमाश्रिताः(तैः) ।। १२ ।। अपस्मारोपरिष्टात्तु लम्बपादतलं न्यसेत् । सूत्रं तत्पादपाये तु वेदं स्यान्मनुमात्रकम् ॥ १३ ॥ सूत्रं तत्पादजान्वोस्तु द्वयन्तरं भानुमात्रकम् ।। श्यामवर्णमपस्मारं नागलीलासमन्वितम् ॥ १४ ॥ धर्मव्याख्यानमित्येवं कल्ययेत्कल्पवित्तमः। तदेव वामपादेनकुटि[क्कुटासनसंयुतम् ।। १५ ॥ पूर्वहस्तद्वयोर्वीणाधृतं युक्त्या द्विजोत्तम । शेष मागिव कर्तव्यमेतद्वीणाधरं परम् ॥ १६ ॥ तदेव वीणाहीनं तु ज्ञानमुद्राभयान्वितम् । वामं प्रसारितं हस्तं वामजान्वोर्ध्वको(क)परम् ॥ १७ ॥ दक्षिणे तु परे चाक्षमालां वामेऽब्जमुत्पलम् । शुद्धश्वेतनिभं वर्ण शेषं पूर्ववदाचरेत् ॥ १८ ॥