________________
२३६
काश्यपशिल्पे षट्सप्ततितमः पटलः ।
दक्षिणे परहस्ते तु डमरुं च धरेद्विज । वामे तु शिखिपिञ्छं च कर्तव्यं शीतलं धृतम् ॥ ९ ॥ सितवस्त्रोत्तरीयं तु नागेन कटिवेष्टितम् । श्वेतयज्ञोपवीतं तु नीलवर्णत्रिपुण्डधृत् ॥ १० ॥ पद्मपीठोपरिष्टात् शेषं कालमूर्तिवत् ॥ ११ ॥ इत्यंशुमद्भेदे काश्यपशिल्पे भिक्षाटनमूर्तिलक्षणं नाम चतुःसप्ततितमः पटलः ।
॥ अथ पञ्चसप्ततितमः पटलः ॥
अथ वक्ष्ये विशेषेण चण्डेशानुग्रहं परम् | उमासहितवत्सर्वं वामे किंचिन्नताननम् ॥ १ ॥ दक्षिणे त्वभयं वर्ज्य तथा त्वाभरणं भवेत् । मवा (तद्वा ) मे कटकं न्यस्य अधस्ताचण्डमूर्तिनाम् || २ || हृदयाञ्जलिसंयुक्ती हस्तौ तदभिसंयुतम् । आसनादिसुखासीनं चण्डेशं वर्णसंनिभम् ॥ ३ ॥ देवदेवेश्वरौ मध्ये स्कन्दमूर्तिं विना बुधः । चण्डेशानुग्रहं ख्यातं दक्षिणं कीर्तितं परम् ॥ ४ ॥ इत्यंशुमद्भेदे काश्यपशिल्पे चण्डेशानुग्रहो नाम पञ्चसप्ततितमः पटलः |
॥ अथ षट्सप्ततितमः पटलः ॥
अथ वक्ष्ये विशेषेण दक्षिणामूर्तिलक्षणम् । लम्बयेदक्षिणं पादं वामाङ्घ्रिनल[का]ग्रक्रम् ॥ १ ॥ सव्योर्वग्रं निधातव्यं वामपादं तु शाययेत् । ललाटदक्षिणे सव्ये नेत्रान्तं तत्पुटान्तके ॥ २ ॥ यत्रयान्तरं नीत्वा लम्ब्य नाभेस्तु मध्यमे ।
मूलं तु मध्ये स्यात्पूर्वसूत्रं प्रलम्बयेत् ॥ ३ ॥