________________
काश्यपशिल्पे चतुःसप्ततितमः पटलः ।
रुद्रांशविशालं तु तद्भागांशेन वर्धितम् । घनं सुवृत्तचक्रं च पद्माकृतिम ( अ )थापि वा ॥ ६ ॥ शिरश्चक्रविशालं तु सप्तभागेकभागिकम् | शिरसचऋनालस्य विस्तारं द्विजसत्तम ॥ ७ ॥ चक्रवामत्रिभागकं चक्रदं शिरसोन्नतम् | अग्रे ललाटपट्टस्य शिरश्चक्रस्य नालकम् ॥ ८ ॥ चक्रं तर्जनीमालम्ब्य पुष्पमालां च मध्यमाम् । सर्वेषां देवदेवीनामेवमेव समाचरेत् ॥ ९ ॥ इत्यंशुमद्भेदे काश्यपशिल्पे हर्यर्धहरलक्षणं नामात्रसप्ततितमः पटलः ।
|| अथ चतुःसप्ततितमः पटलः ॥
अथ वक्ष्ये विशेषेण भिक्षाटनमहेश्वरम् | पादौ पादुकसंयुक्तौ वामपादं तु स्वस्तिकम् ॥ १॥ ईषदुद्धृत्य सव्यं तु पाढं तुङ्ग नवोत्सवम् । ललाटमध्यमासव्ये नवाष्टौ वा यवान्तरे ॥ २ ॥ नासाग्रेद (त्व) धरे वामे हिक्कामध्यं तु वामके । हृन्मध्यनाभिसव्ये तु षोडशं तु यवान्तरम् ॥ ३ ॥ स्वस्त्याङ्घ्रिगुल्फमध्ये तु पूर्वसूत्रं प्रलम्बयेत् । अभङ्गं सनतं कार्य समभङ्गमथापि वा ॥ ४ ॥ पादौ पादुकसंयुक्तौ पादुकारहितौ तु वा । सुविकीर्णजटाभारो जटामण्डल एव वा ॥ ५ ॥ प्रणमं च जटाभारं नग्नरूपं नताननम् | ललाटपट्टसंयुक्तं करोटार्घ तु शेखरम् || ६ || सर्वाभरणसंयुक्तं कटिसूत्रविवर्जितम् । शुद्धश्वेतनिभं प्रोक्तं मानं नागविभूषितम् ॥ ७ ॥ दक्षिणे पूर्व हस्तं तु मृगस्याऽऽसन्नकं भवेत् । वामे तु पूर्वहस्तं तु वरदं स्यात्कपालधृत् ॥ ८ ॥
२३५