________________
२३४
काश्यपशिल्पे त्रिसप्ततितमः पटलः । काश्यप उवाच
त्वया वै वर्धितं चास्य कङ्कालस्यो(स्य) फलं कथम् । शिव उवाच---
इदानी पुरतो विप्र कथ्यते तत्सविस्तरम् ।। ६३ ॥ तदहं भुवनादीनि याचेऽभयपुरस्करः। कम्पितस्तु समस्तानि भुवनान्यधिवासितः ॥ ६४॥ प्रार्थयेयस्तु मां भिक्षा मासं भयनिवृत्तये । अण्डानां सुस्थितार्थ च सर्वलोकोपकारकम् ॥ ६५ ॥ कङ्कालमोचनान्तं तु तद्धनैवमहं द्विज ।
भिक्षान्ते मोचयेदेतत्कङ्कालमभयं भवेत् ॥ ६६ ॥ काश्यप उवाच
एवं कङ्कालमाख्यातं करिरर्थ(हरमर्धहरि) शृणु ॥ ६७ ॥ इत्यंशुमद्भेदे काश्यपशिल्पे कङ्कालमूर्तिलक्षणं नाम
द्विसप्ततितमः पटलः ।
॥ अथ त्रिसप्ततितमः पटलः ।।
अथ वक्ष्ये विशेषेण हरिर(म)र्धहरं परम् । आर्जवं स्वस्थि(स्ति)कं स्थानं स्थानकं समपादकम् ॥१॥ दक्षिणं चाभयं वाम(मे) कटकं पूरिमाश्रितम् । परशुं दक्षिणे वामे (भागे) शङ्खायुधधरं परम् ।। २॥ सव्ये वामे च मुकुटे जटाकिरीटमण्डितम् । प्रवालं श्यामरूपं तु तस्यो(च्छो)भाभरणान्वितम् ॥ ३ ॥ दक्षिणे तूग्रदृष्टिः स्याद्वामे दृष्टिः स(सु)शीतलम् (ला)। किंचित्प्रकाशिताधं च दृष्टया तु तल्ललाटके ॥ ४ ॥ सर्वाभरणसंयुक्तं दिगम्बरसमन्वितम् । शिरश्चक्रसमायुक्तं तस्य लक्षणमुच्यते ।। ५ ॥