________________
२
काश्यपशिल्पे द्विसप्ततितमः पटलः । वाभूतागमनादेवा योन्येवा(निसीमा)वसानकम् । (१) पञ्चतालेन भूतं च मानोन्मानप्रमाणकम् ॥ ४८ ॥ भूते तु शिरसो(सः)पात्रं द्विहस्तं स्पर्श एव वा । पात्रह(
विस्तारके वाऽपि विंशतिरङ्गुलं तु वा ॥ ४९ ॥ निम्नमानं दशाङ्गुल्यं खनमेकाङ्गुलं भवेत् ।। हिरण्यं दक्षदिग्भागे जानुसीमावसानकम् ॥ ५० ॥ मूर्धन्यादिपदान्ते च हरिणीं तुङ्गन्मेव च ।। देवस्य पूर्वसूत्रे तु स्पर्शमानं तथैव हि ।। ५१ ॥ नासाग्रे लम्बयेत्सूत्रं वामागुष्ठस्य मूलके । जटाग्रे विंशदगुल्यं त्रयोविंशदथागुलम् ॥ ५२ ॥ स्पर्शनं कुक्षिनासाग्रमगुष्ठमूलं लम्बयेत् ।। सूत्रवामे तु नीबान्तमष्टाङ्गुल्यशराङ्गुलम् ॥ ५३ ॥ तत्सूत्रादक्षिणाङ्गुष्ठे नीत्रकं तु नवागुलम् । दशरुद्राअन्लं वाऽथ द्वादशाङ्गुलमेव च ।। ५४ ॥ सूत्रस्थानं तु निम्नं वा सव्यपार्ण्यन्तरेऽपि वा । द्वाविंशदडलं वाऽपि त्रयोविंशतिमेव वा ॥ ५५ ॥ सूत्रात्पार्थ तु सीमान्तं दक्षिणामुष्ठनिम्नकम् । एकद्वित्रिचतुष्पश्चरसाहुल्यं तु नीत्रकम् ।। ५६॥ पीठे दक्षिणपाये(श्वे) तु वेदपञ्चरसाङ्गुलम् ।। पादुकायामकं वाऽपि पादतालायसीम(वसान)कम् ।। ५७ ॥ उत्सेधेन गुणामुल्यमूवमानं तु पद्मकम् । तर्जन्यङ्गुष्ठयोर्मध्ये मुकुलाकृति बन्धयेत् ॥ ५८ ॥ द्वयगुलं कुमुदोत्सेधं सुवृत्तं सुन्दरं भवेत् । कैलासशिखरे रम्ये श्रीगन्धे देवनायकम ॥ ५९ ॥ ऋषीणां संगमे प्रीत्या भगवान्परमेश्वरः । दण्डकारण्यलीलायां मुनीनां सर्वशान्तये ॥ ६० ।। तेषां श्रीणां च पौरन्ध्रा(न्ध्ये) विघाताय च लीलया । भिक्षास्वरूपं नग्नेन कटिसूत्रविवर्जितः ।। ६१ ॥ इत्ययं परमेशानः कैलासं त्रैविनीयतम् ।। भिक्षा करोम्यहं विभ कङ्कालस्य तु मोक्षणम् ॥ ६२ ॥