________________
काश्यपशिल्पे द्विसप्ततितमः पटलः । धनं मेघागुलं वाऽपि सुवृत्तनिव्रणं भवेत् । मकरकुण्डलमेवं हि शङ्खपत्रं तु वामके ॥ ३३ ॥ जटामण्डलमेवोक्तं विकीर्ण केशमण्डलं । दक्षिणे तु शेखरं वा पाजन्धिर्वामकेऽपि वा ॥ ३४ ॥ करोटिमन्दबन्धं च धुत्तूरकुसुमावृतौ । वकयक्षं तथैवोक्तमर्कपुष्पैश्च दूर्वकैः ॥ ३५ ॥ पिका(ना)किजगबन्धं च कटौ रुद्राक्षमालिका । नाग कङ्कणं कोष्ठेषु नानारत्नविभूषितम् ॥ ३६॥ व्याघ्रचर्माम्बरधरं रुद्रवक्त्रप्रकाशितम् । भस्मोद्धूलितदिव्याङ्गं किंचित्महसिताननम् ॥ ३७॥ एतत्कङ्कालनामास्ति वामस्कन्धोपरि त्यजेत् । अनेकभूतैर्जायाभिः सेवितं वन्दितं च तैः ॥ ३८ ॥ बलिपात्रधृतं भूतमग्रे गे(हे)मसमन्वितम् । दत्त्वा स्वन्नं तु तत्पात्रे निधायाकृतिजायया ॥३९॥ किंचित्प्रकाशितं योनिसंयुक्तं नत(व)वाससा। संभूता मनसोपेता जायाः सर्वतेने(त्रेने)कशः ॥४०॥ दक्षिणे कटिपार्षे तु क्षुरिकाश्चैव बन्धयेत् । क्षुरिकाहेमसंकाशामुपबन्धसमाञ्चिता ॥ ४१ ।। उभयोः पार्थयोर्हस्ते नानानागैर्विभूषिताम् । ऋषिभिर्देवगन्धवैः सिद्धविद्याधरादिभिः ॥ ४२ ॥ हृदयं कलिसंयुक्तं संभ्रान्तमनसाश्चितैः। सर्वानित्यसदानन्दं सेवितायैः सुपूजितम् ॥ ४३ ॥ वीथीं संमार्जयेद्वायुः पर्जन्यो जलसेचनम् । पुष्पदृष्टिकृतो देवा ऋषयः स्तोत्रपाठकाः॥४४॥ ऋग्यजुःसामाथर्वाणः स्तुतिं कुर्युः परे परे । चमेबन्धं च कांसं च वीणा सुपिरमेव च ॥ ४५ ॥ शङ्खध्वनिसमायुक्तं पञ्चवाद्यं महा(समा)रभेत् । तुम्बुरुनारदाद्यैश्च जयवाद्यं सलक्षणम् ॥ ४६ ॥ चन्द्रादित्यादिचिद्रोजाचा(वद्राजच्चा)मरा दिव्ययोषितः । सर्वलोकोपकारार्थमिन्द्रस्य सवनादिषु ॥ ४७ ॥