________________
[७] ( २ ) पुनर्ये चक्रुः पितरो युवानाः सनायूपेव जरणा शयानाः । ये शिल्पनो जरया जर्जरीकृतास्वपितृन्पुनर्योवनसंपन्नांश्चक्रुः । विकलस्थितिं प्राप्ता नीन्द्रियाणि कृत्रिमसाधनैः पुनः कर्मक्षमाणि कृतानीत्यर्थः ।
( ३ ) त्वष्टा दुहित्रे वहतु कृणोति । इतीदं विश्वं भुवनं समेति । त्वष्टा स्वदुहितरं तापं ददानं सूर्य तक्षित्वा लघीयांसमकरोत् । तथाऽपि सूर्यः सकलं विश्व स्ववशं वर्तयति ।
श्रुतिषु त्वष्टा, ऋभु, नासत्यादीनां तत्पूर्वकालीनानां शिल्पिनां कर्माणि तु अनद्या तनप्रयोगेण वर्णितानि भवन्ति । कश्यप, अगस्त्य, वसिष्ठप्रभृतयस्तत्कालीनशिल्पज्ञानां कार्याणि वर्तमानप्रयोगेण वर्णितानि सन्ति । यथा धर्मशास्त्रे मनुयाज्ञवल्क्यादयो धर्मस्मृतिकाराः सन्ति तथा शिल्पशास्त्रे भृग्वादयोऽष्टादश शिल्पस्मृतिकारा भवन्ति । उक्तं च-----
भृगुरत्रिर्वसिष्ठश्च विश्वकर्मा मयस्तथा । नारदो नग्नजिच्चैव विशालाक्षः पुरंदरः ।। ब्रह्मा कुमारो नन्दीशः शौनको भर्ग एव च । वासुदेवोऽनिरुद्धश्च तथा शुक्रबृहस्पती ॥ अष्टादशैते विख्याताः शिल्पशास्त्रोपदेशकाः ॥
(मत्स्यपुराण अ० २५२) भरतवासीयानामध्ययनपद्धतिष कण्ठज्ञानस्य प्राधान्यम् । तेषामनेका ग्रन्था मखोद्गता भवन्ति । अध्ययनकाले किमपि ज्ञानस्यापूर्व मनोहारि वाक्यादि शिष्यैः सूत्ररूपेण संगृहीतम् । तैश्च पुनरध्यापनप्रसङ्गेन स्वसूत्राणां भाष्यरूपेण शिष्याणां ग्रहणसामोनु रूपो विस्तारः कृतः। एवं प्रायशोऽखिलं शास्त्रजातं सूत्रभाष्यरूपेण सांप्रत लभ्यते । तत्तद्देशोत्पन्नान्धनधान्यधातुपाषाणादिपदार्थानुपयुञ्जानाः शिल्पज्ञाः स्वप्रचारानष्टादशभिः संहिताभिः संकुलीकृतवन्तः । भरतखण्डस्याष्टादशभागानां परिस्थितिः शिल्पग्रन्थानुसा. रेणात्र कोष्ठे संगृहीता जिज्ञासूनां परिचयार्थ विद्यते । अष्टादशसु मयाऽद्यतावत्तिनः संहिता उपलब्धाः । तास्तु कश्यपभृगुमयविरचिताः : एतच्छिल्पसंहितात्रयानुसारेण बद्धानां नाशिकक्षेत्रस्थानां त्रयाणां देवालयानां छायाचित्राणि संनिहितानि सन्ति । कश्यपसंहिता हिमाद्रिविन्ध्ययोरन्तर उपयुज्यते । भृगुसंहिता विन्ध्याइक्षिणतः कृष्णातुगभद्रापर्यन्तम् । तुङ्गभद्रादक्षिणत आसेतु मयसंहितायाः प्रचारः । भरतखण्डस्यैते त्रयो मुख्या विभागा एतास्तिस्रः प्रमुखाः संहिताश्च । इतरासां संहितानामपि एतादृश एव