________________
[८] संबन्धः स्याद् । एते त्रयो भागाः सात्त्विकराजसतामसनाभभिः प्रसिद्धाः । शिल्परत्नकाराणामपि संमतये तत् । यथा च---
हिमाद्रिकन्ययोरन्तर्गतो देशस्तु भारतः । सोऽपि देशस्त्रिधा भिन्नस्तत्तद्देशमवैर्गुणैः ॥ यथैव देहिनां देहो वातपित्तकफात्मकः । तथैवेदं जगत्सर्वं विज्ञेयं त्रिगुणात्मकम् ॥ त्रियुगं तत्त्रिवर्णं च त्रिचक्रं च क्रमात्स्मृतम् । हिमवद्विन्ध्ययोर्मध्यं सात्त्विकं भूतलं स्मृतम् ॥ विन्ध्यशैलादिकृष्णान्तं राजसं परिकीर्तितम् । पुनः कृष्णादिकन्यान्तं तामसं भूतलं भवेत् ।। नागरः सात्त्विको देशो द्राविडो राजसो भवेत् । वेसरस्तामसो देशः क्रमेण परिकीर्तिताः ॥ (शिल्परत्न अ० १६) कलिः शयानो भवति संजहानस्तु द्वापरः।
उत्तिष्ठनेता भवति कृतः संपद्यते चरन् ॥ (ऐतरेयब्राह्मणम् ) भरतवर्ष कृतत्रेताद्वापरेषु त्रिषु युगेषु समुत्पन्नम् । कृतयुगे तु प्रथमं कृष्णाया दाक्षणभागो धरास्वरूपतां गतः । नूतनो घनीभूतोऽयं भूभागोऽतीव चञ्चल आसीत् । प्रथममेव घनीभूतत्वाच्छायायुक्तोऽयं भूभागः । तस्मात्स · वेसरः' सरणशील: ' तामस: तमःसंपन्न इति कथ्यते । त्रेतायुगे च बहुभ्यो ज्वालामुखिभ्यो निःसृताद्रवरूपपाषागादिरसाद्विन्ध्यात्कृष्णापर्यन्तो भूभागः संजातः । अस्मिन्भागे रजोरूपद्रव्यस्य च समृद्धिः । तस्मादेष भूभागो द्रवीभूतत्वादाविड इति रजोधारणाद्राजस इति च स्मर्यते । अनन्तरं द्वापरयुगे विन्ध्यहिमालययोर्मध्यगतो भूप्रदेशः समुद्रतलादुत्थितः । अस्मिन्प्रदेशे शिलास सत्त्वानामवशेषा लभ्यन्ते । सत्त्वावशेषादयं भागः सात्त्विकः, नगरस्थापनायो . ग्यत्वान्नागरः, गुडोत्पादककृषिसंभवादगौड इति च कीर्त्यते । अनन्तरं कलौ युगे
भरतभूमिः सुप्ता भवति । एतेषां चतुर्णा युगानां पुनरपि त्रीणि त्रीणि चक्राणि भवन्ति । एषां भूभागानां सामान्यवर्णा अपि भिन्नाः सन्ति । सात्त्विकप्रदेशः श्वेतप्रायः, राजसो लोहितकृष्णः, तामसस्तु पीतश्वेतो भवति । कृतयुगे रत्नचक्रं, धातुचक्रं, पाषाणचक्रं 'चेति त्रीणि चक्राणि । त्रेयामां स्फटिकचक्रं, तीक्ष्णचक्रं मृदुचक्रं चेति त्रीणि चक्राणि । द्वापरे शङ्खचक्र, वृक्षचक्रं, पशुचक्र चेति, संनिहितो वर्णचक्रयुगदर्शकश्चित्रलेपे भरतखण्डस्य स्थिति दर्शयति । एवं भरतवर्षस्थ पृथविधानां भागानां भूरचना, ओषधिवनपस्पतिलाभः, पशुपक्षिणां जातिगुणविशिष्टत्वं, मनुष्याणामाचारव्यवहाराश्च भिन्ना भवन्ति ।