________________
( २ ) आविद्युन्मद्भिर्मरुतः स्वरथेभिर्यात वृष्टिमद्भिरश्वपर्णैः ॥ ऋ० विद्युता संपादितेन ‘उदान' नाम्ना वायुना पूरितैरर्कफलाकृतिभिर्भाजनैः कृतेषु रथेषु स्थित्वा यूयं पर्णरूपैरभैरधऊर्ध्वगामिभिरायात । ७ वास्तुशास्त्रम्-इहैव ध्रुवां निमिनोमि शालाम् । क्षेमे तिष्ठतु घृतमुक्षमाणा ।
अश्वावती गोमती सूनृतावती । उच्छ्यस्व महते सौभगाय । अस्मिन्स्थले स्वीयां शालां करोमि । सा मम कल्याणं ददातु । तस्यामश्वा गावो बालकाश्च महदैश्वर्याय भवन्तु । ८ प्राकारशास्त्रम्-यत्ते शिल्प कश्यप रोचनावद् । इन्द्रियावत्पुष्कलं चित्रभानु ।
यस्मिन्त्सूर्या अर्पिताः सप्त साकम् । तस्मिन् राजानमधिविश्रयैनम् ॥ तैत्तिरीयसंहिता ।
हे कश्यप यत्त्वया निर्मित सुन्दरं बलिष्ठं विस्तृतं तेजोयुक्तं च शिल्पं प्राकारः स्तस्मिन्नमुं राजानमाश्रयं यच्छेति ।
कश्यपेन निर्मिते दुर्गे कवचे वा राजाऽऽश्रयमिच्छति । तस्य मन्त्रिण इयं प्रार्थना । ९ नगररचनाशास्त्रम्-ये पन्यानो बहवो देवयाना अन्तरा द्यावापृथिवीं संचरन्ति । ते मा जुषन्तां पयसा घृतेन यथा क्रीत्वा धनमाहराणि ।।
अथर्व ३ । १५ । २ पृथ्वीजलवायुषु त्रिषु भुवनेषु ये रथगमनयोग्याः पन्थानः सन्ति ते मां तर्पयातु । क्रयविक्रययोग्यान्घृतपयआदिपदार्थान्क्रत्विाऽहं धनं संपादयामि । (२) समानीव आकृतिः समाना हृदयानि वः ।
समानमस्तु वो मनो यथा वः सुसहासति ।। युष्माकं हृदयानि, शरीराणि, मनांसि चैकरूपाणि सन्तु । तेन यूयं परस्परं भावयन्तः क्षेममवाप्स्यथ । आचारविचारव्यवहारेषु ये समाः सन्ति तेषां संगतिः सुखाय भवतीति । १० यन्त्रशास्त्रम्-तक्षन्धेनुं कामदुधाम् । ऋग्वेद ०
शिल्पज्ञा यद्यदिष्टं तत्तत्साधयितुं समर्था धेनुं निर्ममुः । अनेन कामधेनुनाम्ना प्रसिद्धं किंचिन्महायन्त्रं भवतीति तर्कयामि । विशेषतस्तक्षधातोः प्रयोगात्कृत्रिमत्वं लक्ष्यत ।