________________
[4]
( २ ) मह्यं त्वष्टा वज्रमतक्षदायसम् । (ऋ० १० । ४८ । ३ ) इन्द्रः कथयति - मदर्थे त्वष्टाऽयोलोहस्य वज्रं चकारेति । ' पहार' इति ख्यातमृजुलोहितं वज्रं भवेत् । तेनेन्द्रेण गिरयो विदीर्णास्तेषामुदरे स्थिता आपः स्त्रोतोरूपेण मुक्ताश्च ।
४ नौकाशास्त्रम् - यमेन ततं परिधिं वयन्तोऽप्सरस उपसेदुर्वसिष्ठाः (ऋ० ७/३1३1९ ) कर्णधारस्य वशे स्थिता अप्सु संचरन्त्यो नौका धीवरेण स्थापितं जालमाजग्मुः । मत्स्यान्भीषयन्त्य इतस्ततो भ्रमन्त्यो नौका जालमुपससर्पु: (सूपुः) ।
( २ ) सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतम् । देवीं नावं स्वरित्रामनागसमस्रवन्तीमा रुहेमा स्वस्तये ॥ ऋ० १० । ६३ । १० वातापी ( शिड इति महाराष्ट्रीयभाषायां ख्यातं ) युक्तामाकाशमिव मनोहरां, विस्तारवतीं त्रै: ( वल्हे इति महाराष्ट्रभाषायां ख्यातं ) प्रचोदितां, जलमस्रवन्तीं athi वयं स्वकल्याणार्थमारोहाम ।
१ रथशास्त्रम् - ( १ ) स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम् । सुसंस्कृता अभीशवः ॥ ऋ० १ । ३८ । १२ ॥
युष्माकं रथानामश्वाश्चक्राणां नेमयश्च स्थिराः सन्तु । अभीशवो वाजिरश्मयश्चोत्तमाः संस्कारयुक्ता भवन्तु ।
( २ ) रथं ये चक्रुः सुवृतं सुचेतसो विवरन्तं मनसस्पारध्यया ॥ ऋ० ३ । ७ । २ । २८ यावश्विनीकुमारौ स्वबुद्धिसामर्थ्यात्सुन्दरं यथेष्टगमनसमर्थं रथं चक्रतुः । तस्मै स्थाय वलयाकृतीनि चक्राणि युयुजतुः ।
६ विमानशास्त्रम् - मित्र हुवे पूतं दक्षं वरुणं च विषादसम् । धियं घृताची साधन्ताम् । (ऋग्वेद)
1
घृताच्यां घृतसंग्रहणयोग्ये कुम्भे मित्रश्च वरुणश्च द्वौ देवों तेजोयुक्तौ पदार्थों जायेते । तयोर्मित्रः पूतो दक्षश्च भवति वरुणस्तु रिषादा नीचधातुभक्षणकर्ता भवति । विद्युतो धनऋणसंज्ञौ द्वौ प्रकारों । तयोर्धनसंज्ञको मित्र इति ऋणसंज्ञको वरुण इति प्रकीर्त्यते । मित्रावरुणाभ्यां जलस्य प्राणोदानवायुषु पृथक्करणं भवति ।
: .::