________________
[ ४ ]
ते स्वानिनो रुद्रिया वर्षानिर्णिजः ।
सिंहा न क्रतवः सुदानवः ॥ ( ऋ० ३ । २६ । ५ ) ।
ग्रीष्मे सूर्यस्य प्रखर किरणैस्तप्ता वायवः सर्वे लघुवस्तु हिमालयादिशीतं प्रदेशं नयन्ति । ते मेघा भयंकरं गर्जन्तो भीषणा जलवर्षावसमर्थ वायुभिरुत्क्षिप्यन्ते । वयं च तन्मेघवृष्टितः पुष्पफलजलसमृद्धिं प्राप्नुवाम । इत्यादिषु श्रुतिवाक्येषु कृषिर्व्याख्याता भवति । एवमन्येषामपि शास्त्राणां ज्ञातव्यम् ।
२ जलशास्त्रम् - वातत्विषो मरुतो वर्षानिर्णिजो यमा इव सुसदृश: सुपेशसः । पिशङ्गाश्वा अरुणाश्वा अरेपसः प्रत्वक्षसो महिना द्यौरिवारवः ॥ (ऋ० ५ | १७ | ४ )।
जलवर्षणसमर्थाः कृष्णवर्णा वायुना नीयमानाः केचन पिशङ्गरङ्गाः केचन रुणरङ्गा अश्वारूढा इव द्यौरिव दानशूरा भवन्ति । यथा द्यौः सर्वत्र प्रकाशं ददाति तथा मेघाः सर्वत्र जलमिति ।
(२) या आपो दिव्या उत वा स्रवन्तीः खनित्रिमा उत वायाः स्वयंजाः । समुद्रार्थायाः शुचयः पावकास्ता आपो देवीरिह मामवतु ॥ ( ऋ० ७ । ४९ | २ )
या आपो दिव्या दिवश्च्युता वा या भूमौ स्वतः स्रवन्त्यो याः खनिषु लब्धा वा भूपृष्ठे निःसरन्त्यस्ताः सर्वाः समुद्रमेव गच्छन्ति । ता आपः स्वयंशुद्धा अन्यपदार्थाशुद्धान्कुर्वन्ति । ता मां स्तोतारं रक्षन्तु |
(३) शं न आपो धन्वन्याः शमु सन्त्वनूप्याः ।
३ खनिशास्त्रम्--:
शं नः खनित्रिमा आपः शमु याः कुम्भ आभृताः ॥ शिवा नः सन्तु वार्षिकीः ॥ अथर्व ( १ | ६ | ४ ) ।
मरुदेशस्थिता बहुजलदेशस्था वा कूपेषु स्थिता वा कुम्भेषु गृहमानीता वा वृष्टिषु नभस्तः पतिता वा सर्वा आपो नः कल्याणाय भवन्तु ।
(- अगस्त्यः खनमानः खनित्रैः प्रजापत्यं बलमिच्छमानः । उभावर्णावृषिरूप्रः पुपोष सत्या देवेष्वाशिष आजगाम ॥
( ऋ० १ । १७९ । ६ ) धनधान्यपुत्रादिकमिच्छन्नगस्त्यो वसुधां रवनित्रैश्चखान हारिद्रवान्वनस्पती-रक्तद्रवान्पशुपक्ष्यादीन्वपुपोष । तेजः संपत्त्रेषु स्थिरां कीर्तिं च प्राप । खनिभ्यो विविधं वस्तुजातं कीर्तिं च संपादितवानिति ।