________________
[३]
इति तैत्तिरीय संहितायां कश्यपस्य प्राकारे राज्ञ आश्रयो याचितः । एवं शिल्पं जगतः प्रारम्भत उत्पन्नं दृश्यते । विद्यमानग्रन्यास्तु कादा केन वा ग्रथिता इति स्पष्टं न ज्ञायते । कश्यपसंहिता तु भगवता कश्यपेन स्वपुत्राय नैध्रुवय उप• दिष्टा भवति ।
भारतवर्षीयाणां धर्मादयः सर्वे पुरुषार्थाः श्रुतिस्मृतिपुराणोक्ताः । श्रुतिषु सर्वेषां शास्त्राणां मूलम् । स्मृतिषु तस्य विस्तारः । पुराणेषु कथोपकथादृष्टान्तैस्तस्य विशदीक• रणं भवति । उक्तं च
• इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ' इति ।
6
‘वैदिकमेकं सूक्तं स्मृतिषु प्रकरणरूपमेति । तच पुराणेषु ग्रन्थतामायाति । नद्याः प्रवाह इव शास्त्रं विस्तरमुपैति ज्ञानसागरे चः लीयते । शिल्पसंहितायां दश शास्त्राणि द्वात्रिंशद्विधाश्चतुष्षष्टिश्च कला भवन्ति । तेषां शास्त्राणां श्रुतिस्मृतिपुराणोक्तत्वं स्वल्पेन स्पष्टी क्रियते । तद्यथा सौरसूक्ते --
१ कृषिशास्त्रम् - शुकेषु मे हारिमाणं रोपणाकासु दध्मसि ।
--
अतो (थो) हारिद्रवेषु मे हारिमाणं निदध्मसि ॥ इति ।
हे सूर्य मम निःश्वासतो निःसृतं हारिमाणसंज्ञकं वायुं त्वं शुकेषु ( वृक्षेषु ) च रोपनाकासु ( लतासु ) च दध्मसि ( निदधासि ) । इत्थं मम हारिमाणेन त्वं वनस्पतीन हारितद्रवयुक्तान्करोषि । वनस्पतिषु यद्धारितं द्रव्यं दृश्यते तत्सूर्यप्रकाशेन हारिमाणवा युतः संभवति । हारितद्रव्यस्योत्पत्तिसामर्थ्यात्स वायुहरिमाण ( हरितीकुर्वाणः ) इति उच्यते
( २ ) शुनं नः फाला विकृषन्तु भूमिम् ।
शुनं विनाशा अभियन्तु वाहैः ॥
शुनं पर्जन्यो मधुना पयोभिः |
शुनासीराः शुनमस्मासु धत्तम् ॥ ( ऋ० ४ । ५७ । ८ ) ।
यजुर्वेदे चाथर्ववेदे च समानार्थको मन्त्रो लभ्यते । फाला अस्माकं भूमिं सुकर्षन्तु, कृषीवला बलीवर्दाननुयान्तु, मेघा मधुराणि पयांसि वर्षन्तु, अस्मासु धनधान्यसमृद्धिर्भ
वतु |
( ३ ) अग्निनियो मरुतो विश्वकृष्टयः ।
आ त्वेषमुत्र अव ईमहे वयम् ॥