________________
[ २ ]
अस्य जगत उत्पतेः प्रामिदं विश्वं तमः प्रायमप्रज्ञातमलक्षणं सर्वतः प्रसुप्तमिव शान्तमासीत् । तस्मिन्विकारः संभूतः । अस्य विकारस्य चाधोगमनं ( गुरुत्वं ) नाम । अस्याऽऽकर्षणात्सर्वं वस्तुजातमघो गच्छति तस्मात्सोऽधोगमननाम्ना ज्ञायते । पदार्थानामधःपतनकारणत्वात्स गुरुत्वमित्यप्यभिधीयते ।
अस्य विकारस्य प्रादुर्भावक्षणादेव कालो गण्यते । विष्णोराज्ञया प्रवर्तमानस्याद्य ब्रह्मण इति । दिगपि तदनुसारेण ज्ञायते । श्रूयते च
दश प्राचीदेश दक्षिणा दश प्रतीचीर्दशोदीची देशोर्ध्वाः, इति । एवं सर्वा दिशोपदिशस्त्वधोबिन्दुसापेक्षतयैव ज्ञायन्ते । महदल्पादिगुणा अपि तस्याऽऽकर्षणाद्धनीभूतस्य तत्त्वस्याधिकन्यूनपरिमाणतया मीयन्ते । तारतम्येनानुभूयन्ते च । द्रव्यज्ञानक्रियासु चैकैकाधिकतया पञ्च महाभूतानि पञ्च ज्ञानेन्द्रियाणि पञ्चगुणग्रहणसमर्थं मनश्च प्रादुर्भूतम् । भूतानि द्रव्यविशेषात् इन्द्रियाणि क्रियाविशेषात्, मनश्च ज्ञानविशेषात् इति । भूतादीनां संमिश्रणेन साशनानशना सृष्टिर्जाता । तथा च श्रूयते पुरुषसूक्ते
3
तस्माद्विश्चं व्य ( तो विष्वङ्गव्य) क्रामत्साशनानशने अभि, इति । तयोः साशनपदार्थाः स्रोतो भेदतस्त्रिविधाः । ऊर्ध्व स्त्रोत सस्तिर्यक्त्रोतसश्चार्वाक्त्रोतस इति । ऊर्ध्वस्रोतसां वनस्पत्योषधिलतादयः षट्प्रकारा भवन्ति । तिर्यक्त्रस्रोतसां च पशुपक्षिमत्स्यादयोऽष्टाविंशतिप्रकाराः । अर्वाक्स्रोतसस्तु केवल एक एव प्रकारो नृसंज्ञकः । अर्वाक्स्रोतस एव कचिदूर्ध्वमूला इत्यपि कथ्यते । इत्थं विकारप्रादुर्भावात्परम्परया त्मिकाऽखिला सृष्टिरुत्क्रान्ता । मनुष्याणामुत्कान्तेरनुसारेण शिल्पस्याप्युत्क्रान्तिरिति ।
चराचरा
--
मनुष्यशब्दो मनस:-- :--- विचारशक्तेः- - उप्यं वसतियोग्यं स्थानमिति निरुच्यते । शिल्पशब्दस्तु पुनः शील समाधौ इति धातोर्मनसः समाधानकारकं वस्तुजातमिति उत्पद्यते । स्मर्यते च भृगुसंहितायाम् -
नानाविधानां वस्तूनां यन्त्राणां कल्पसंपदाम् ।
धातूनां साधनानां च वास्तूनां शिल्पसंज्ञितम् इति ।
3
शिल्पे नानाविधान्नपानादिग्रामगृहाच्छादनादिसर्वस्य वस्तुजातस्य संग्रहो भवतीति भृगुसंहितायाम् । श्रूयते च
यत्ते शिल्पं कश्यप रोचनावद् | इन्द्रियावत्पुष्कलं चित्रभानु ॥ यस्मिन्त्सूर्या अर्पिताः सप्त साकम् । तस्मिन्राजानमधिविश्रयैनम् ||