________________
उपोद्धातः ।
-x+x-- अस्ति मानवजातेरुत्पत्तिक्षणादेव शिल्पस्य जन्म । विविधपरिस्थितिषु नानाविधयोजनाभिर्दुःखपरिहारपूर्वकं सुखोत्पादनप्रयत्न एव मनुष्यत्वपशुत्वयोर्विशेषः । न केवलं जगतो भिन्नभागेषु परमेकस्मिन्भागेऽपि विभिन्नकालेषु, तथा चैकस्मिन्कालेऽपि परिस्थितिभेदेषु मनुष्येषु यथा भोगवैचित्र्यं दृश्यते न तथा पशुषु । पूर्वकाले काकवृका. दयो यथाऽवर्तन्त तथैव सद्यःकालेऽपि वर्तन्ते । आङ्ग्लदेशस्थिताः काकवृका भरतभूमिस्थितेभ्यः काकवृकेभ्योऽसदृशवेषभोगाः । भरतभूमावपि षट्सु ऋतुषु काकवृकानामेका स्थितिः । तथा कृतयुगकालीनमनुष्याणां स्थितिः कलियुगकालीनमनुष्याणां स्थितेर्भिन्ना। आङ्ग्लेदशस्थितानां मनुष्याणां भोगवेषादयो भरतभूमिस्थितानां मनुष्याणां भोगवेषेभ्यो विसदृशाः । भरतभूमावपि ग्रीष्मशरद्धेमन्तऋतुषु मनुष्याणां भोगवेषा भिन्नाः । एक. स्थाने निवसत्सु चैककालीनेषु मनुष्येषु संपन्नविपन्नानां भोगवेषा नैकरूपाः । एष सर्वः शिल्पस्य प्रभावः । अत एव पराशरादयो महर्षयो मनुष्यसृष्टिं पशुसृष्टेर्भिन्नरूपा मन्यन्ते । स्मयते च भगुसंहितायाम्---
आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतय॑मविज्ञेयं प्रसुप्तमिव सर्वतः ।। तस्मिन्विकारः संभूतस्त्वधोगमननामकः ।
यस्मात्सर्वं च संजातं चराचरमिदं जगत् ॥ इति । पराशरीयकृषी ---
कालद्रव्यगुणैस्तस्मात्रिविधः प्रतिसंक्रमः । आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः ।। द्वितीयस्त्वहमः सर्गो ज्ञानद्रव्यक्रियात्मकः । भूतसर्गस्तृतीयश्च तन्मात्रो द्रव्यशक्तिमान् ॥ चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः । वैकारिको देवसर्गः पञ्चमो मन्मयं मनः ॥ षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः सदा । ऊर्ध्वस्रोतः सप्तमस्तु पड्विधस्तथुषां चयः ॥ तिरश्चामष्टमः सर्गो योऽष्टाविंशतिधा स्मृतः । अर्वास्त्रोतस्तु नवमः केवलैकविधो नृणाम् ॥ इति ।