________________
काश्यपशिल्पे द्विपञ्चाशत्तमः पटलः ।
१८७ धर्माब्धिवसुभूतं च यवागुष्टादिविस्तृतम् । तन्मूलेऽष्टांशहीनं तु शेषमविशालम् ॥ २४ ॥ अग्रव्यासेन भूतांशे वेदांशं नरसविस्तृतम् । विस्तारात्पादमाधिक्यं नखयाममुदाहृतम् ॥ २५ ॥ अगुष्ठे तु द्विपादं स्यादन्येषां तु त्रिपादकम् । तलमध्यमरेखाभिः शूलाभ पार्श्ववत्तले ॥ २६ ॥ मूलप्रदेशस्य घनं............कोलकमुच्यते । अष्टांशहीनमय तु घनमित्यभिधीयते ॥ २७ ॥ तलायामसमं ज्ञेयं तलस्यैव तु विस्तृतम् । मणिबन्धस्य विस्तारं त्रिमात्रं द्वियवाधिकम् ॥ २८ ॥ प्रकोष्ठमूलविस्तारं सार्थभूतांशमुच्यते । बाहु(हास्य तु विस्तारं सार्धषण्मात्रमुच्यते ॥ २९ ॥ बाह्वोर्मध्यविशालं तु सप्ताङ्गुलमुदाहृतम् । हिकासूत्रं तु कक्ष्यान्तं वस्वगुलमुदाहृतम् ॥ ३० ॥ वाविंशदंशं सं प्रोक्तं....कक्षयोरन्तरा युगम् । हृदयाविध(वधि)विस्तारमष्टादशाङ्गुलं भवेत् ॥ ३१ ॥ उदरस्य विशालं तु सप्तादशाङ्गुलं भवेत् । श्रोणिप्रदेशविस्तारं दशाङ्गुलमुदाहृतम् ॥ ३२ ।। षड्य नाभिविस्तारं निम्नमर्धयवं भवेत् । स्तनमण्डलविस्तारमर्धाङ्गुलमुदाहृतम् ॥ ३३ ॥ चूचु[काग्रस्य विस्तार]मुत्सेधं तत्सम भवेत् । जानुमध्यविशालं तु सार्घषण्मात्रमुच्यते ॥ ३४ ॥ नलिकायास्तु विस्तारं सार्थ वेदाङ्गुलं भवेत् । अघितलाग्रविस्तारं कनका(द्विनवा)ङ्गुलमुच्यते ॥ ३५ ॥ तलमध्यविशालं तु भूताङ्गुलमुदाहृतम् । पादाङ्गुष्ठसमायामं चतुर्मात्रमुदाहृतम् ॥ ३६ ॥ तस्याग्राद्गुल्फमण्यन्तं सार्धद्वादशमात्रकम् । अनामिकारतु(या दीर्घ तु त्रयस्त्रिंशद्यवं भवेत् ॥ ३७ ।।