________________
१८८
काश्यपशिल्पे त्रिपञ्चाशत्तमः पटलः ।
मध्यागुलं तु तत्तुल्यं वेदांशं तु तदाननम् । कनिष्ठायास्तु दीर्घ तु सार्धानं व्यङ्गुलं भवेत् ॥ ३८ ॥ सप्ताष्टनवर्धर्म(धाम)न्वत्रयोदशयवं क्रमात् । कनिष्ठायङ्गुलानां तु विस्तारः प्रविधीयते ॥ ३९ ॥ अग्रमूलसमं प्रोक्तं विस्तारं तु त्रिभाजिते । द्वया(द्वि)भाग नखविस्तारं तत्तुल्यायतवर्तुलम् ॥ ४० ॥ तलाग्राङ्गुष्ठमूले तु द्विमात्रं तु घनं भवेत् । कनिष्ठायास्तु मूले तु घनं नवयवं भवेत् ॥ ४१॥ अक्षात्पाय॑न्तरं भागं पाय॒त्सेधं च तत्समम् । प्र(१)ष्ठमण्डलविस्तारं पादोनं नवमात्रकम् ॥ ४२ ॥ वक्षःस्थले परे व्यासं पञ्चत्रिंशतिमात्रकम् । . . अक्षयोरन्तरं प्रोक्तं चतुर्विंशतिमात्रकम् ॥ ४३ ॥ अत्रानुक्तं तु यत्सर्वमुत्तमं दशतालवत् । येषां लक्षणमाख्यातं तेषामाकृतिः पूर्ववत् ॥ ४४ ॥ इति काश्यपशिल्पे दशतालं नाम द्विपञ्चाशत्तमः पटलः ।
॥ अथ त्रिपञ्चाशत्तमः पटलः ॥
नवता दशतालोक्तं (अथोक्तं नवतालं तु) शृणुष्वैकाप्रमानसः । वसवश्चाष्टमूर्तीश्च विद्ये(त्ते शाल्लोकपालकान् ॥१॥ अन्याश्च देवताश्चैव नवतालोत्तमं कुरु । सद्वादशशतं भागं वेरमाने विभाजिते ॥२॥ उष्णीषं चैकभागेन दे(के)शान्तं तु गुणाङ्गुलम् । केशान्तादक्षिसूत्रान्तं वेदमात्र विधीयते ।। ३ ॥ तस्मादापटसीमान्तं वेदांशं तु पृटार्धकम् । कण्ठमानं तु वेदांशं भान्वंश हृदयावधि ॥४॥ हृदयानाभिसीमान्तं तथा द्वादशमात्रकम् । नाभ्यादिमेदमूलान्तं भानुमात्र विधीयते ॥ ५ ॥