________________
१८६
काश्यपशिल्पे द्विपञ्चाशत्तमः पटलः ।
यत्रोपेतद्विमात्रं तु नेत्रयोरन्तरं द्विज । तत्समं नयंता (ना) यामं भूतमात्रं तु वाऽऽयतम् ॥ १० ॥ (a) मध्यादूर्ध्वकेशान्तं सप्तदश यत्राः स्मृताः । यवं भ्रूमध्यविस्तारमानुपूर्व्यात्तदग्रकौ ॥ ११ ॥ षड्यवं नेत्रविस्तारमूर्ध्ववर्म यवार्धकम् । अधोव तु तत्तुल्यं करवीरयवं भवेत् ।। १२ ॥ नेत्रायामं त्रिधा कृत्वा एकांश कृष्णमण्डलम् । कृष्णमण्डलमध्ये तु ज्योतिर्यवप्रमाणकम् ॥ १३ ॥ यक (व) मानेन दृष्टिः स्याज्ज्योतिर्मण्डलमध्यमे । अधोवर्म सिततिनेत्रं सू(र्मसु तत्रसू ) त्रं कुर्याद्विशेषतः ॥ १४ ॥ तस्य केशान्तयोर्मध्ये भ्रूस्थितिलचन्द्रवत् ।
कर्णस्थानं च कर्णे च उत्तमं दशतालवत् ।। १५ ।।
प्राणमूलस्य विस्तारं यवमात्रमुदाहृतम् । नासिकाग्रविशालं तु व्योमा गुलमुदाहृतम् ।। १६ ।। अधरोष्ठस्य चाssयामं पक्षाङ्गुलमुदाहृतम् । तदर्थं तस्य विस्तारं चिबुकं च द्वयागुलम् ॥ १७ ॥ विस्तारं तत्समं विद्यान्निन्नमर्धयवं भवेत् । . तस्मादधरनिष्क्रान्तं यवनव्योममात्रकम् ॥ १८ ॥ ग्रीवामूलविशालं तु वस्वङ्गुलमुदाहृतम् । ग्रीवाग्रस्य तु विस्तारं सार्थसप्ताङ्गुलं भवेत् ॥ १९ ॥ वक्षःस्थलस्य विस्तारं सप्तत्रिंशतिमात्रकम् । पञ्चविंशतिमात्रं तु बाहुदीर्घमुदाहृतम् || २० || आयामं तु प्रकोष्ठस्य एकोनविंशदङ्गुलम् | तस्मादामध्यमायान्तं सार्घद्वादशमात्रकम् ॥ २१ ॥ तद तु तलायामं शेषं मध्या ( षमर्धा) गुलायतम् | अङ्गुष्ठस्तस्य दीर्घं तु अष्टादश यवाः स्मृताः ॥ २२ ॥ सार्धवेदाङ्गुलं प्रोक्तमतामिका तु (नामायास्तु ) दीर्घकम् । तदा ( ) व तर्जनीदीर्घ कनिष्ठाया युगांशकम् ॥ २३ ॥