________________
काश्यपशिल्पे द्विपश्चाशत्तमः पटलः । तत्सूत्रं स्तनयोर्मध्यं दक्षिणे तु गुला(णा)ङ्गुलम् । तत्सूत्राद्वामने(दक्षिण)नाभिनीनं व्यङ्गुलकं भवेत् ।। ५७ ।। तत्सूत्राद्वामतो योनिमूलं मध्यं युगागुलम् । तत्सूत्राद्दक्षिणे जानुनीनं गुणामुलं भवेत् ।। ५८॥ शेषं पूर्ववदुद्दिष्टं गौरीलक्षणमेव हि ।
सरस्वत्यादिशक्तीनां मागेत्र प्रोच्यते न वा ॥ ५९ ॥ इत्यंशुमद्भेदे काश्यपशिल्पे मध्यमदशतालविधानं नामेक
पश्चाशत्तमः पटलः।
। अब द्विपञ्चाशत्तमः पटलः ।।
कन्यसं दाशतालेन शृणु वक्ष्ये द्विजोत्तम । चन्द्रादित्याश्विनी चैव ऋषयश्च गुहस्तथा ॥ १ ॥ आर्यः शतमुखश्चैव श(च)ण्डेशः क्षेत्रपालकः। कन्यसं दशतालेन कारयेत्तु विचक्षणः ॥ २ ॥ कलाधिकशतांशः स्यादथम दशतालकम् ।। उष्णीशमगुलं मोक्तं केशमानं गुणाङ्गुलम् । ३ ॥ केशात्तु हनुपर्यन्तं सोल(सार्थ) भान्वङ्गुलं भवेत् । यगाइगुलं समाख्यातं कण्ठमानं द्विजोत्तम ।। ४ ।। हिक्यान(कादि)स्तनमूलान्तं सार्धख्यद्वय)गुलकं भवेत् । स्तनादानाभिपर्यन्तं तत्समं चेति कीर्तितम् ॥ ५ ॥ नाभेस्तु मेदमूलान्तं सार्धद्वादशमात्रकम् । तन्मेद्मूलं जान्वग्रात्पञ्चविंशतिमात्रकम् ॥ ६ ॥ वेदभागं तु जानूश्च जङ्घा चोरुसमा भवेत् । वेदांशं चरणोत्सेधं तुङ्गमेवं विधीयते ॥ ७ ॥ उष्णीषात्पृष्ठकेशान्तं सार्धमान्यङ्गुलं भवेत् । उष्णीषपात्केशान्तं पञ्चाङ्गुलमुदाहृतम् ॥ ८॥ केशान्तिा]दनुपर्यन्तं मानं तु गुणभाजिते । केशान्तादक्षिसूत्रान्तं पृटार्ध जान्वकं तथा ॥ ९ ॥