________________
१८४
काश्यपशिल्प एकपञ्चाशत्तमः पटलः ।
केशान्तमुकुटोत्सेधमष्टादशाङ्गुलाधमम् । एकविंशागुलं मध्यं श्रेष्ठं भानुद्वयागुलम् . ४२॥ शिरोनाहाद्यवाधिक्यं मुकुटं मूलविशालक(स्तृत)म् । मूलं सप्ताष्टधा भाज्य भागोनाग्रविशालकम् ॥ ४३ ॥ किरीटमुकुटं चैव केशबन्धवमाचरेत् । मूलादग्रं क्रमाक्षीणं करण्डमुकुटस्य तु ।। ४४॥ पास्य मुकुलाकारं मुकुटाग्रं प्रकल्पयेत् । त्रिपञ्चसप्तनन्दैर्वा करण्डैस्तु विराजितम् ।। ४५ ॥ चतुष्यूरु (री)मसंयुक्तं नानापुष्पैविराजितम् । हारोपग्रीवसंयुक्तं मुक्तादामरलंकृतम् ।। ४६ ।। कर्णी कुण्डलसंयुक्तौ चतुर्मात्रौ तता(थाऽs)यतो । मुकुट कुण्डलं वाऽथ वृत्तं कुण्डलमेव वा !! ४७ ॥ कटकैः कटिसूत्रं च सारोपग्रीवसंयुतम् । बाहुपूरिम युक्तं छिन्नवीरसमन्वितम् ।। ४८ ॥ यज्ञोपवीतसंयुक्ता केयूराढया सुशोभना । दुकूलवसन। देवी श्यामवणो च सुस्तनी ॥ ४९ ।। उत्पलं दक्षिणे हस्ते वामहस्तं प्रलम्बितम् ।। अपाङ्गसमभङ्ग वा कल्पयेदतिसुन्दराम् ॥ ५० ॥ दक्षिणं सुस्थितं पादं वामपादं तु कुञ्चितम् । आभङ्ग तु गुणांशे तु पदांशं समभङ्गाके ॥ ५१ ।। नतमानं समाख्यातं सूत्रं वक्ष्ये यथाक्रमम् । ललाटमध्यावामे तु नेत्रायश्च पुटात्मके ।। ५२ ॥ हरेर्वारे समालम्ब्य स्तनयोरन्तरे तमा(ता)म् । नाभेर्दक्षिणपार्वे तु वामोरुदक्षिणं वृतम् ।। ५३ ॥ अवामश्चरणों पाणि वामपार्वे तु लम्बयेत् ।। पादादङ्गुष्ठयोश्चैव द्वयन्तरं पोडशाङ्गुलम् ॥ ५४ ॥ तत्र भागेकभागं तु पाय॑न्तरमुदाहृतम् । एवमाभङ्गमाख्यातं समभङ्गमथ शृणु ॥ ५५ ॥ ललाटमध्य नासाग्रात् पादपाण्यश्च मध्यमे । मसार्य ब्रह्मसूत्रं तु वन्तरं तु प्रमीयते ।। ५६ ॥