________________
काश्यपशिल्प एकपञ्चाशत्तमः पटलः । १८३ स्तनासं च स्तन व वृतं कृत्यादि सुन्दरम् । स्तनान्तरं यवाष्टांशं चिन्तविरंचतत्र वै ॥ २७ ॥ अक्ष योरन्तरं विप्र सप्तदशाङ्गुलं स्मृतम् । वाहपर्यन्तविस्तारमेकत्रिंशाङ्गुलं भवेत् ।। २८ ॥ हिकासूत्रादधो बाहुदीर्घ पडिंशदङ्गुलम् । कोप(कूप)रोच्चं द्विभागं स्यात्प्रकोष्ठाद्विर्नवाङ्गुलम् ॥ २९ ॥ मणिबन्धान्तलायाम सप्ताङ्गुलमुदाहृतम् । तस्मान्मध्यमाङ्गुल्यं पद्भिः पश्चात्तर्जनी भवेत् ॥ ३० ॥ अनामिकातर्जनीगुल युगाङ्गुष्ठकनिष्टयोः । अगुलीनां तु दीर्घवं हस्तयोरुभयोरपि ॥ ३१ ॥ नवसप्ताष्ट सप्त तु यवागुष्ठादि विस्तृतम् । तत्पदंशं च भागं च नखतारामिहोच्यते ।। ३२ ॥ यवद्वाराधिक तारं नखायामं तु तीक्ष्णवत् । हस्तस्य तलविस्तारं पञ्चाङ्गुलं विधीयते ।। ३३ ॥ मणिबन्ध विशालोऽग्निभूतांशं कोपरोस(कूर्परस्य) तु । पडंशं वाहुविस्तारं सप्तांशं वाहुमूलके ।। ३४ ॥ तस्मादामणिवन्धान्तं तरुणं वेणुवत्कृशम् । हस्तविस्तारमेवं स्यात् सप्ताशं ग्रीवविस्तृतम् ॥ ३५॥ अग्रमूले तु विस्तारं वस्वंशं सा(स्या)यवाधिकम् । रुद्रांशं मुखविस्तारं कुक्कुटाण्डसमाकृति ।। ३६ ।। भ्रवः केशान्त योर्मध्यं साधतिद्वयङ्गुलं भवेत् । भूमध्य नेत्रसूत्रान्तं सपादद्वयगुलं भवेत् ।। ३७ ॥ ...सयवैकाङ्गुलं भवेत् । तदर्थ() को ज(न)दी तु तस्यार्थ तस्य विस्तृतम् ॥ ३८ ॥ हस्तिहस्तोपमं पादं हस्तं गोपञ्चवत्कृतम् । शेपमुक्तं तु तालोत.मार्गेणैव समाचरेत् ॥ ३९ ॥ स्त्रीणां सामान्यमेतद्धि विशेषमधुना शृणु । गोर्येवं द्विभुजा शान्ता द्विनेत्रैः षट्प्रसारिता ॥ ४० ॥ करण्ड मुकुटा बाऽ किरीटमुकुटा तथा । मुकुट केशवन्धं स्यात्तेष वै सुन्दरं कुरु ॥ ४१ ।।