________________
१८२
काश्यपशिल्प एकपञ्चाशत्तमः पटलः ।
केशान्तादक्षिसूत्रान्तं सत्रिपादयुगांशकम | अक्षिसूत्रात्पुटान्तं तु सार्ववेदांशमिष्यते ॥ १२ ॥ नासापुटात्तु हत्व(न्व)न्तं सत्रिपादगुणांशकम् | तस्याथ ग्रीवामानं तु चतुर्भा मुदाहृतम् || १३ ॥ हि (वि) ख्यातं (हृदयान्तं च त्हृदयान्नाभिसीमकम् । नाभ्यादियोनिपर्यन्तं समं त्रयोदशाङ्गुलम् ॥ १४ ॥ ऊरुदर्घि समंजङ्घा दीर्घपात ( द ) तलं युगम् | तलपादतलायामं पाङ्गुल्यग्रमीमकम् ॥ १५ ॥ तर्जन्यादिषु ये दीर्घं चतुर्भागमुदाहृतम् । सार्धत्रिपादमर्थं स्यात्रिभागं तदनामिका ॥ १६ ॥ सार्घद्विभागमानं तु कनिष्ठाङ्गुलिदीर्घकम् । द्विरष्टासार्धपातालपातालरसभिर्यवैः ॥ १७ ॥ अङ्गुष्ठादिकनिष्ठान्तं चरणाङ्गुलिविस्तृतम् । त्रिद्वयंशं तु नखव्यासं पादोन्त (ना) यतवर्तुलम् ।। १८ ।। अङ्गुलीनां मुखोचं तु नखव्याससमं भवेत् । मध्यं रसाङ्गुलं जान्वीव्यासं तु मिति विद्यते ॥ १९ ॥ मध्ये पञ्चाङ्गुलं पाणिविस्तारं चतुरङ्गुलम् । कुक्षिगुल्फान्तविस्तारं पञ्चभागं विधीयते ॥ २० ॥ नलिका त्रिवेदांश जङ्घामध्यं रसाङ्गुलम् | जानोर्व्यासं तु सप्तांशं भान्वंशमूरुमूलतः ॥ २१ ॥ भानुद्विगुणभागं तु विस्तारं कादि(कटि ) बन्धके । योनिपीठविशालं तु सप्ताङ्गुलमुदाहृतम् ॥ २२ ॥ योनिभागं चतुर्भागमघोगाश्वत्थपत्रवत् । विस्तारसदृशोत्सेधं योनिं कुर्यात्समालयम् || २३॥ श्रोणिस्थाने तु विस्तारं संयत्रं विंशदङ्गुलम् | नाभेस्तु नतविस्तारं सयवं परिकीर्तितम् ॥ २४ ॥ मध्यमंसविशालं तु रुद्राङ्गुलमुदात्हृनम् । स्तनयस्तन्तु (योस्तत्तु) विस्तारं सार्थत्रयोदशाङ्गुलम् ॥ २५ ॥ स्तनान्तरं नवांशं स्याद्विगुणं स्तनचूचुकम् |
स्तनोचं सार्थवेदांशमक्षार्थी (घ) नाङ्गुलोन्नतम् ॥ २६ ॥