________________
काश्यपशिल्प एकपञ्चाशत्तमः पटलः ।
सार्घद्व्यङ्गपृष्ठजान्वोतां विदुः । (?) मध्ये तु पार्श्वयोः शेषं यथासौन्दर्यमाचरेत् ॥ २०४ ॥ इत्यं शुभद्भेदे काश्यपशिल्प उत्तमदशतालपुरुषमानं नाम
पञ्चाशत्तमः पटलः ।
॥ अथैकपञ्चाशत्तमः पटलः ॥
१८१
मध्यमं दशतालेन स्त्रीमानमथ वक्ष्यते । सरस्वती च दुर्गाच उमा भूमिश्च मातरः || १ || लक्ष्मीश्चैव तु ज्येष्ठा च अनेन विधिना कुरु । ईशो ब्रह्मा रथे विष्णुः शक्तिरित्यभिधीयते ॥ २ ॥ तेषामनुगुणं मानं तन्मध्ये तेऽस्तु मानकम् | शंभुं नासाग्रसीमान्तं शक्त (क्त्यु)च्चं हु ( ह्यु) को (मो) त्तमम् || ३ | शंभो स्तन सीमान्तमधमाधममुच्यते ।
योर्मध्येऽष्टभागेन नवधा शक्तिमानकम् || ४ | शंभोर्हि ख्यातमुद्दिष्टं स्तनान्तमथमाधमम् । तयोर्मध्येऽष्टभागैकं नवधा शक्तिमानकम् ॥ ५ ॥ एवं द्विर्न वयोत्पादादुष्णीषसीमकम् ।
तस्या जात्यंशमायामं योजयेस्ति (त्सि ) द्धरुच्यताम् || ६ || श्रीभङ्गासननृत्तानां चान्यमानवमूर्तिनाम् ।
देव्युच्चं समपादस्य स्थानकं ह्येव युक्तितः ॥ ७ ॥ दुर्गा ज्येष्ठा च लक्ष्मी मातरश्च विशेषतः | मानकम्प्येतु लिङ्गाद्या माने संकल्प्य देशिकः ॥ ८ ॥ मूललिङ्गस्य गौरी तु लिङ्गमानेन कल्पयेत् । सद्वयंशतीशतं भागं स्त्रीमाने तु विभाजिते ॥ ९ ॥ एकांशमङ्गुलं ख्यातं तदष्टांशयत्रं भवेत् । तदङ्गुलैर्यवैश्चैव अङ्गमानं प्रमीयते ॥ १० ॥ उमादीनां तु देवीनामेतदेवाङ्गुलायतम् । उष्णीषोदयमेकांशं केशान्तं तु गुणाङ्गुलम् ॥ ११ ॥