________________
१८०
काश्यपशिल्पे पञ्चाशत्तमः पटलः ।
कक्षाग्रधरनिम्नं तु सार्घद्वय गुलकं भवेत् । ग्रीवं सुवृत्तनं नाम ग्रीवाष्टौ परिवेष्टितौ ॥ १८९ ॥ कण्ठमूलेन तं ता (तत्ता) रं तुङ्गं चैव चतुर्यत्रम् | हिक्कायास्त्वक्षमात्रं च ज ( त ) त्र सुत्रमुदाहृतम् ॥ १९० ॥ हिक्कामध्यात्तु कक्षान्तं स्तनान्तरं समं भवेत् । हृदयं स्तनयोर्मध्ये निम्न व्यर्धमात्रकम् । १९१ ॥ नी (ना) लं वै कण्ठमूले च यवत्रयप्रमाणतः । अत्यर्धायामसंयुक्तं कल्पयेन्मन्त्रवद्भवेत् ।। १९२ ॥ कण्ठमूले नतं विकासूत्राधस्तात्प्रकल्पयेत् । हिक्का सूत्रोपरिष्टात्तु नीलवर्ण प्रकल्पयेत् ॥ १९३ ॥ हृदयस्तनपीठोचं द्वयाङ्गुलमुदाहृतम् | सप्तदशयचं ख्यातं स्तनमानीलविस्तृतम् ॥ १९४ ॥ तन्मध्ये चूचूकोश्चं तु व्यासं चैत्र वद्वयम् । नाभेः स्तनस्य विस्तारं व्योमात्रशं द्वयाधिकम् ॥ १९५ ॥ नाभिप्रदक्षिणावृत्तं मूलनारं यवद्वयम् ।
तन्नाभ्य(भि)वृत्तमध्यस्थनाभिमूत्रं द्विजोत्तम । १९६ ॥ नाभेरधःस्थपादानस्तोच्ययं पञ्चमात्रकम् । तत्तत्स्थानात्कटिश्रोणी साद्व्यङ्गुलमुच्यते ॥ १९७॥ तस्मादामेदमूलान्तं मेहूपीठं युगाङ्गुलम् | पादतन्मात्रं च लिङ्गदीर्घमुदाहृतम् ॥ १२८ ॥
लिङ्गमूलविशालं तु सप्तदश यवाः स्मृतम् । लिङ्गायामं त्रिभागेकमग्रण्यायतं भवेत् ॥ १९९ ॥ तत्र आगण्डमूले तु यवमानं द्रुह (गुदा)न्तरम् । रक्तोत्पलमुकुलायाममागण्याग्रमुच्यते ॥ २०० ॥ मुस्कायामविशालं तु सार्थवेदाङ्गुलं भवेत् । धनं सार्धगुणांशं तु तन्मूलोद्धोरुवर्धनम् || २०१ ॥ मेहू पीठस्य मूलस्य व्यासं सप्तार्थमात्रकम् । मेदूपीठस्य मूलान्तमूरुमूलस्य मांसलम् ॥ २०२ ॥ जानुमण्डलविस्तारं सपादं चतुरङ्गुलम् | सागुलकं मोक्तं जानुमण्डलनीकम् ॥ २०३ ॥