________________
काश्यपशिल्पे पञ्चाशत्तमः पटलः । पृष्टकेशावसाने तु नाड्यर्धाशकं त(शं तु तत्त)तम् । तस्याः पृष्ठावाचं युगांशं त्रियवाधिकम् ।। १७४ ।। कृकाटिकाधः पृष्ठाग्रं[ग्रीवाग्रं तु नवाङ्गुलम् ! पृष्ठग्रावस्य मूलस्य तारं साधंदशाङ्गुलम् ।। १७५ ॥ आमूलाग्रं क्रमात्कर्ष ग्रीवावृत्ताङ्गमुच्यते । हिकासूत्रोपरि स्कन्धतुङ्ग तु चतुरङ्गुलम् ॥ १७६ ।। तस्मादाकटिसीमान्तं वंशिक(शम)क्षांशमायतम् । तद्वंशनतविस्तारं साधषोडशकं यबम् ।। १७७ ।। वंशमानादधस्तात्तु वंशमूलं गुणाङ्गुलम् । परे तु तुङ्गमेवं स्यात्तस्मिन्व्यासं वदामि ते ॥ १७८ ॥ सार्धऋक्षागुलं प्रोक्तं कक्षयोरन्तरं द्विज । कक्षयोः स्वंसफकतुङ्ग सप्ताङ्गुलान्तरं भवेत् ॥ १७९ ।। को बाहुसीमान्तं सप्ताङ्गुलमुदाहृतम् । सार्धषोडशमात्रं तु मध्यव्यासमुदाहृतम् ॥ १८० ॥ कक्षस्याग्रविशालं तु सप्तमात्रमुदाहृतम् ।। नाभिसूत्रे तु विस्तारं सार्थद्वयर्थामुलं भवेत् ॥ १८१ ।। कटिबन्धों तु विस्तारं त्रिषडंशपदाहृतम् । पादोनकर्मभागं तु स्फिपिण्डं प्रतिविस्तृतम् ॥ १८२ ।। सवित्तौ तो समाख्याती तयोर्मध्यं चतुर्यवम् । अपरेतरविम्बक्तं पाचव्यासमुदाहृतम् ।। १८३ ॥ कक्षस्याग्रविशालं तु सप्तमात्रमुदाहम् । सपादषोडशमात्रं स्यात्स्तनसूत्रेण विस्तृतम् ।। १८४ ॥ सपादद्वादशांशं तु मध्ये पाय घनं भवेत । श्रोणिमध्ये घनं पार्श्व सप्तदशाङ्गुलं भवेत् ।। १८५ ॥ ततः श्रोण्युदयं विप्र सप्तमात्रमुदाहृतम् । नाभिमूत्रादधश्चोर्षे चतुर्विशाङ्गुलं भवेत् ॥ १८६ ।। श्रोण्यधस्तात्कटेरुचं सार्धभूतागुलं भवेत् । तत्केटेस्तु घनं धीमनसाधभान्वङ्गुलं भवेत् ।। १८७॥ प(स्फिक्)पिण्डं चोरुमूलात्तु नीनं सार्थयुमाङ्गुलम् । तत्पिण्डलं घनं वर्धसूत्रादर्धाङ्गुलं भवेत् ।। १८८ ।।