________________
काश्यपशिल्पे पञ्चाशत्तमः पटलः । सार्धद्वयगुलं मोक्तं शूकोदरमिहोच्यते । अङ्गुष्ठमूलमारभ्य मणिबन्धावसानकम् ।। १२९ ।। दीर्घवेदाङ्गुलं प्रोक्तं व्यर्धाशं तु घनं भवेत् । पाणिहस्तधनान्यंशमग्रमङ्गुष्ठव(म)क्षयम् ।। १३० ॥ अङ्गुलीनामधस्तात्तु द्वयशस्यांसलान्तकम् । द्विभागपाणिहस्तस्य शू(शु)कोदरविशालकम् ।। १३१ ।। शेपमध्यतलं निम्नं भूतो वेदाग्निवायवम् ।। सूक्ष्मरेखां लिखेत्तस्मिञ् शङ्ख वा चक्रशूलवत् ।। १३२ ॥ पद्माभं वा कुशाभं वा तलरेखां प्रकल्पयेत् । यवाष्टशतनिम्नं स्याटेखाणां तु द्विजोत्तम ।। १३३ ॥ वृत्ताभेऽपेक्षितं(ताङ्गेषु व्यासं पञ्चविभाजिते ।। एकां तु परिग्राह्यं विस्तारं त्रिगुणान्वितम् ।। १३४ ॥ यत्तन्नाहमिति ख्यातं नाहतो तार कल्पितम् । कर्णोद्धे शिरसा नाहं साष्टत्रिशाङ्गुलं भवेत् ।। १३५ ॥ कर्णोध तु शिरस्तात्तु यवोनद्वादशाङ्गुलम् । कर्णयोः पूवेनालं तु द्वाविंशदङ्गुलं भवेत् ।। १३६ ॥ कर्णयोः पूर्वनाहं तु भान्वगुलमुदाहृतम् । तयोर्मध्यस्थभागं तु कर्णस्थितिरुदाहृतम् ।। १३७ ॥ शिरसो मध्यमामूर्तिमण्डलं चतुरङ्गुलम् । तस्मादादग्रकेशान्तं नवाङ्गुलमुदाहृतम् ॥ १३८ ॥ ततो वे मण्डलात्कर्ण के शान्तं च नवाङ्मुलम् । मण्डलात्पृष्ठकेशान्तं साधेमध्याङ्गुलं भवेत् ।। १३९ ।। ललाटे तिर्यगानन्तु नवाङ्गुलमुदाहृतम् । केशान्तादक्षिसूत्रस्य द्वयोर्मध्ये भ्रयोः स्थिने ॥ १४०॥ भ्रुवाओं तु नवाङ्गुल्यं चापाकारं यथा कुरु । द्वयन्तरं तु भ्रुवोर्विप्र साधे वेद यवं भवेत् ।। १४१ ॥ पञ्चाङ्गुलं भ्रवायाम मध्यतारं यवद्वयम् । वालचन्द्राग्रवक्षीणं भ्रुवायो तस्य मध्यमात् ॥ १४२ ॥ कर्णिकायामविस्तारं यवमानमुदाहृतम् । कृष्णमण्डलविस्तारं चोत्सेधं च यवं भवेत् ॥ १४३ ॥