________________
काश्यपशिल्पे पश्चाशत्तमः पटलः । १७५ नवतारं स्वतारार्ध नखं पूर्वोक्तवद्विदः । तत्तदङ्गुलविस्तारं वेदांशं विभजेद्बुधः ।। ११४ ॥ त्रिभागं मङ्गलाग्रोच्चं शेषं स्यात्तु नखान्तरम् । त्रियवाधिकविस्तारं बाहुमध्यविशालकम् ।। ११५॥ सभागसप्तभागं तु कूपरव्यासमुच्यते । पादोनरसभागं तु प्रकोष्ठमध्यविस्तरम् ।। ११६ ।। पादोन तुरंशं तु मणिबद्ध (न्ध)विशालकम् । सप्तांशं तु तलायाम सार्धषण्मध्यमाङ्गुलम् ॥ ११७॥ सपादभूतभागं स्यात् अ(त्व)नामिकायमुच्यते । यवाधिकं तु पञ्चाशं तर्जन्यायाममुच्यते ।। ११८ ॥ सपादवेग(द)भागं तु देाङ्गुष्ठकनिष्ठयोः । मङ्गुष्ठमूलविस्तारं सपादांशमुदाहृतम् ॥ ११९ ॥ तर्जन्यष्टयवा ख्याता नवसंख्या तु मध्यमा । अनामिकाष्टयवा ख्याता सप्तसंख्या कनीयसी ।। १२० ॥ अङ्गुष्ठाय गुलान्तं तु मूलविस्तारमेव हि । तत्तन्मूलक लाशेंऽशहीनमग्रविशालकम् ।। १२१ ।। अग्रतारं रसाशे तु पञ्चांशं नखविस्मृ(स्तृ)तम् । पापयोमांसलं शेष वृत्तायत न ताकृति ।। १२२ ।। सपादं नखतारं तु नखायाममुदाहृतम् । नखायाम द्वयं चाधः पर्वदीर्घ प्रशस्यते ॥ १२३ ।। अङ्गुष्ठमूलपर्वस्य दीर्घ सप्तदशयवाः । तर्जनीमूलपर्व तु अनामिकाद्वयाअ-लम् ॥ १२४॥ मध्यमामूल पर्वस्य दैर्घ्यमष्टादश यवाः । कनिष्ठामूलपर्वस्य त्रयोदश यवाः स्मृताः ॥ १२५ ।। मूलाग्रपर्वयोर्मध्ये दीर्घमध्यस्थपर्वसु । अङ्गुष्टं तु द्विपर्वार्ध शेषास्त्रिपर्वसंयुताः ॥ १२६ ।। सिद्धं तलामुलं विप्र तलाग्रं विपुलं भवेत् । रसाशं मध्यविस्तार हस्तस्येव तलस्य तु ।। १२७ ॥ तलमूलविशालं तु सार्धपटकाग्रमुच्यते । अङ्गुष्ठपूलमारभ्य तर्जनीमूलमन्तकम् ॥ १२८ ॥