________________
काश्यपशिल्पे पञ्चाशत्तमः पटलः । तस्माद्वेदाङ्गुलं जानु जयातुङ्गनेरु सदृशम् । युगं पादतलोत्सेधमेवमुत्सेधमुच्यते ॥ ९९ ।। अङ्गुष्ठाग्रं तु भाज्यं तु तलं सप्तदशाङ्गुलम् । हिक्कासूत्रादधोभागं दीर्घमृक्षाङ्गुलं भवेत् ।। १०० ॥ कूपरोचं द्विभागं स्यादेकविंशत्यकोष्ठकम् । सार्धत्रयोदशाङ्गुल्यं मध्यमाङ्गुलिसीमकम् ॥१०१॥ अग्रतो मुखविस्तारं साधभारागु-लं भवेत् । मुखाकर्णातविस्तृतं त्रयोदशाङ्गुलं मतम् ॥ १०२ ॥ ग्रीवाग्रं सार्धनन्दांशं ग्रीवामूलं दशाङ्गुलम् । हृदयावाहुसीमान्तं हु(च)त्वारिंशच्च वाऽर्धकम् ॥ १०३ ॥ सार्धद्वाविंशदगुल्यं कक्षयोरत्न(न्त)रस्तनम् । नवावं चतुयेवोपेतं बाहुमूलविशालकम् ॥ १०४ ।। एकविंशतिबाहुः स्यात्स्तनदेशस्य विस्तरम् । हृदयावधिविस्तारमेकोनत्रिंशदङ्गलम् ।। १०५ ॥ कलांशं चतुर्यवोपेतं मध्यव्यासमुदाहृतम् । एकोनविशदंशं तु श्रोणीतारमुदाहृतम् ॥ १०६ ।। कटि(दयो)रग्रे विशालं तु द्विनवाङ्गुलमुच्यते । तदधः कटिपाचन्तिं विस्तारः सार्धेविंशतिः ॥ १०७ ॥ पादोनमनुभागं तु ऊरुमूलविंशालकम् । सपादद्वादशांशं तु ऊरुमध्ये विशालकम् ।। १०८ ॥ पादोनयमभागं तु जानुव्यासमुदाहृतम् । सपादवसुभागं तु नलिकाविस्मृ(स्तु)तं भवेत् ॥ १८९ ॥ यवोपेतद्वयांशं तु तस्य विस्तारमुच्यते । अक्षदातलतुङ्गं तु तस्य विस्तारमुच्यते ॥ ११० ।। तारार्धनखविस्तारं पादोनायतवतुलम् । त्रियवोपेतवेदांशं तर्जन्यायाममुच्यते ॥ १११ ॥ पादोनवेदभागं तु मध्यागुल्यायतं भवेत्। यवोपेताग्निभागं त्वनामिकायामामिष्यते ।। १.२ ।। सार्धपक्षांशमानं तु कनिष्ठाङ्गुलदीर्घकम् । प्रदेशिन्यादितन्नव सप्ताधाश्च .... ॥ ११३ ॥