________________
१७३
काश्यपशिल्पे पञ्चाशत्तमः पटलः। वसुवर्गाष्टमूर्तिश्च विद्येशाल्लोकपालकान् । अन्याश्च देवताश्चैव नवतालोत्तमेन तु ।। ८४ ॥ यक्षाप्सरोगणाश्चैव अस्त्रमूर्तिमरुद्गणान् । मध्यमं नवतालेन विद्याधरगणस्तथा ।। ८५॥ असुरान् सिद्धगन्धर्वान् पितरश्च तथैव च ।। कन्यसं नवतालन कारयत्तु विचक्षणः ॥ ८६ ॥ अष्टतालेन म(सा)ध्यास्तु पिशाच(चाः) सप्तमेन तु। रसतालेन कुलमांस्तु कारयेद्देशिकोत्तमः ।। ८७ ॥ पञ्चतालोक्तमानेन विन्ध(त्ते)शं कारयेद्भधः। तन्मध्यमाधमेनैव सत्रभूतगणान्कुरु !! ८८ ।। बालस्तु वेदतालेन त्रितालेनैव कारयेत् । द्वितालं किंनरश्चैव एकतालं तु कर्मकम् ।। ८९ ॥ एवं तालक्रमं प्रोक्तं वेराणामनुकूलकम् । सवेदविंशदंशं च शतं विम्वोदयं कुरु ॥९ ॥ तेष्वेव तालमात्रं स्यात्तन्मात्रं वसुभाजिते । एकांशं तु यवं प्रोक्तं यवैरप्यङ्गुलेरपि ॥ ९१ ॥ उष्णीषात्पादपर्यन्तमङ्ग-मानं प्रमीयते । त्रियवाधिकचन्द्रांशा उष्णीषोक्त(च)मुदाहृतम् ॥ ९२ ॥ तस्मादापूर्वकेशान्तमङ्गभागमुदाहृतम् । केशान्तादक्षिसूत्रान्त युग्मांशं त्रियवाधिकम् ॥ ९३॥ अक्षिसूत्रात्पुटान्तं च पुटाद्धन्वन्तमानकम् । प्रत्येकं त्रियवाधिक्यं युगांशोदयमिष्यते ।। ९४ ।। हन्वादिगलमानं तु चतुर्यवमुदाहृतम् । यवैकोनमुदांशं तु कण्ठोच्चमिति विद्यते ॥ ९५॥ केशमूलाद्धनुसूत्रं हिक्कासूत्रमुदाहृतम् । हिक्कादाहृदयान्तं च हृदयं नाभिसीमकम् ।। ९६ ॥ नाभेस्तुमे(अ)ग्रमूलं तु समं गुणयवाधिकम् ।। त्रयोदशांशमुत्सेधं प्रत्येक द्विजसत्तम ॥ ९७॥ अग्रमूलात्सूत्रमध्यं मध्यसूत्रं तदुच्यते । अयेसूत्रादधश्चोरुदीर्घ नक्ष(ब)भागमायतम् ।। ९८ ॥