________________
१७२
काश्यपशिल्पे पञ्चाशत्तमः पटलः । प्राक्छिरश्चोर्ध्ववक्त्रं तु फलकायां निधापयेत् । गन्धपुष्पैश्च धूपैश्च दीपैरघ्यश्च पूजयेत् ।। ६९ ॥ तस्य दक्षिणपार्श्वे तु शिवाग्निं तु प्रकल्पयेत् ।। समिदाज्यचरुद्रव्यं हुत्वा चाष्टशताहुतीः ॥ ७० ।। द्रव्यान्तेऽप्याहुति हुत्वा पूर्णाहुति समाचरेत् । ध्यात्वा विम्बाकृतिं त्वग्निं मध्यमूलमुदाहृतम् ॥ ७१ ।। आत्मनि यथा धूपं आघ्राणं तु समर्चयेत् ।। आग्रात्क्रमात्संधानमाचरेत् .............. ॥ ७२ ॥ शिरःसंधानमीशेन मुकुटं कवचेन तु । अस्त्रेण अस्त्रसंधानं पादी सद्यः समर्चयेत् ॥ ७३ ।। आदी पश्चात्तु संधानं क्रमासंपूर्णमाचरेत् ।। उपाङ्गं तु ततः कुर्यात्मत्यङ्गं तु ततः कुरु ।। ७४ ।। अष्टत्रिंशत्कलान्यासं तत्तदङ्गानि विन्यसेत् ।। वस्त्रमाभरणं चैव सूत्रं चोपाङ्गमिष्यते ॥ ७५ ॥ हस्तभृतिरितिच्छिन्नं प्रत्यङ्गमिति विद्यते । धर्मतालत्रितालान्तं श्रेष्ठान्तराधमं त्रयम् ॥ ७६ ।। उत्तमं दशालाख्यं चतुर्विंशच्छताङ्गुलम् । मध्यमं दशतालं स्याभानुपक्क्यामुलं भवेत् ।। ७७ ॥ कलाधिकशतागुल्यमधमं दशतालकम् । सद्वादशशतं भागं नवतालोत्तमं भवेत् ॥ ७८ ।। अष्टोत्तरशतांशं तु मध्यमं नवतालकम् । कन्यसं नवतालं स्यात् द्वेधाधिकशतं भवेत् ।। ७९ ॥ तालं प्रत्येवमेवं तु क्रमाद्वेदाजु-लं हरम् । उत्तमं दशतालेन ब्रह्मविष्णुमहेश्वरम् ॥ ८०॥ मध्यमं दशतालेन उमा सरस्वती तथा । उपा भूमिश्च दुगो च लक्ष्मीश्च मातरस्तथा ॥ ८१ ज्येष्ठा चैव प्रकर्तव्या स्वस्वाङ्गानि समन्विता। चन्द्रादित्याश्विनी चैव ऋषयस्तु ग्रहास्तथा ।। ८२ ।। अर्थ च पण्मुखं चैत्र चण्डे शक्षेत्रपालकम् । कन्यसं दशातालेन कारयेद्विजसत्तमः ।। ८३ ॥