________________
काश्यपशिल्पे पञ्चाशत्तमः पटलः। तां तत्सम व्यासं (?) कृष्णमण्डलपार्श्वयोः । शफलाकृतिकं स्या(वाs)पि धनुषा(राकृतिरेव वा ॥ १४४ ॥ अर्धचन्द्राकृतिर्वाऽथ नेत्राकारं प्रकल्पयेत् । तदाकारानुकोल(कूलो चसितमण्डलयोर्द्विज ॥ १४५!! नेत्रान्ते त्व(न्तेऽ)यवं रक्तमण्डलं तु सितांशकम् ।। कृष्णमण्डलमध्ये तु ज्योतिर्मण्डलकं यवम् ॥ १४६ ।। तदष्टांशैकभागं तु तन्मध्ये दृष्टिमण्डलम् । तत्साधू यवमानं तु उर्ववर्मततं भवेत् ॥ १४७ ॥ अधोवर्म च तत्तल्यं दीर्घमष्टादशं यवम् । नेत्रयोरन्तरं विप्र सपादद्वयङ्गुलं भवेत् ।। १४८ ।। ऊर्वधर्म भ्रवारन्त(न्तः )साधेषट्कयवं भवेत् ।। अधोवर्मस्थितिः क्षिप्रं तत्र सूत्रे विधीयते ।। १४९ ॥ कर्तृनाशमथा(धो)दृष्टिश्चोर्ध्वदृष्टिविपत्करम् । बहुनाशं भवेत्पार्श्वदृष्टिश्चद्भावमासनम् ॥ १५० ।। तस्मात्सर्वप्रयत्नेन सममेव निरीक्षणम् । नेत्रमेवं समाख्यातं नासिकालक्षणं पुनः ॥ १५१ ।। नासिकापुटबाह्यं तु तारमष्टादशा यवाः। तदर्धे मध्यविस्तारं तस्याथै मूलविस्तृम् ॥ १५२ ॥ मोजिमूलं तु नास्यग्रात्तत्तुङ्ग द्वयङ्गुलं भवेत् । पुटयोर्मध्यभित्तिस्तु पुष्करं त्विति विद्यते ॥ १५३ ।। अत्यर्थ(ध)यबमालम्ब्य नासाग्रपुटसूत्रकम् । साध्य(ध)वेद यज्ञा(वा)ङ्गोच्चदीर्घ तस्याविस्तृतम् ।। १५४ ॥ अर्चेष्टस्योर्ध्वनिम्नं तु गोजिनाम्ना प्रशंसिता । यवानं तु (वोपनता) गोजी तु ततैवं नासिका द्विज ॥ १५५ ।। सपादं चतुरंशं तु आस्यदीर्घ तिर्यग्विदुः । उत्तरोष्ठायतं चाऽऽस्यदीर्घतुल्यमुदाहृतम् ॥ १५६ ।। उत्तरोष्ठस्य मध्ये तु तारं साधत्रयं यवम् । अपूर्वकृत शान्तारमास्यसीमावसानकम् ।। १५७ ॥ यवमानघनं पालि उत्तरोष्ठस्य चोपरि । त्रियवोपनता पालि ततोऽष्ट(तोष्ठ)सदृशायता ।। १५८ ।।